SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arachana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir चा.ग.भ. महत्त्वामत्यरत ॥१६७॥ टी.वा.का. स. ६३ महत्त्वमित्यस्य विवरणम्-ऋषिमुख्यत्वमिति ॥२०-२२॥ ततोऽहं विजितेन्द्रियः यदि महर्षित्वं भवता दत्तं ततोऽहं विजितेन्द्रियश्चास्मीत्यर्थः ॥२३॥ न तावत्त्वं जितेन्द्रियः विकारहेतुसन्निधानेपि यावन्न विकरोषि तावन्तं कालं तव जितेन्द्रियत्वं नास्तीत्यर्थः ॥ २४ ॥२५॥ आकाशसंश्रयः वर्षावरण महर्षे स्वागतं वत्स तपसोग्रेण तोषितः। महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक ॥२०॥ब्रह्मणस्स वचः श्रुत्वा सर्वलोकेश्वरस्य ह ।न विषण्णो न सन्तुष्टो विश्वामित्रस्तपोधनः ॥२१ ॥ प्राञ्जलिः प्रणतो भूत्वा सर्वलोकपिता महम् । प्रत्युवाचततो वाचं विश्वामित्रो महाभुनिः॥२२॥महर्षिशब्दमतुलं स्वार्जितैः कर्मभिः शुभैः । यदि मे भगवानाह ततोऽहं विजितेन्द्रियः ॥२३॥ तमुवाच ततो ब्रह्मा न तावत्त्वं जितेन्द्रियः। यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवंगतः॥ २४॥ विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः । ऊर्द्धबाहुनिरालम्बो वायुभक्षस्तपश्चरन् ॥ २५॥ घर्म पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः। शिशिरे सलिलस्थायी राज्यहानि तपोधनः ॥२६॥ एवं वर्षसहस्रं हि तपो घोरमुपागमत् ॥ २७॥ तस्मिन संतप्यमाने तु विश्वामित्रे महामुनौ । सम्भ्रमः सुमहानासीत् सुराणां वासवस्य च ॥२८॥रम्भामप्सरसं शक्रस्सह सर्वमरुद्गणैः । उवाचात्महितं वाक्यमहितं कौशिकस्य च ॥२९॥ इत्यारे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिषष्टितमः सर्गः ॥ ६३॥ रहितदेशस्थः ॥ २६ ॥२७॥ सम्भ्रमः किमस्मत्पदं कांक्षत इति अस्थाने भयशङ्का ॥२८ ॥ अहितं कौशिकस्य चेत्यनेन तद्विषयवैरनिर्यातनार्थ पच रम्भाप्रेरणमित्यपि गम्यते ॥२९॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने त्रिषष्टितमः सर्गः॥६॥ महर्षीति । ततोऽहं विजितेन्द्रियः यदि महर्षित्वं भवता दत्तं ततोऽहं विजितेन्द्रियश्चास्मीत्यर्थः ॥ २३ ॥ तमिति । न तावत्त्वं जितेन्द्रियः, विकारहेतुसन्निधानेपि यावन्न विकरोषि तावन्तं कालं तव जितेन्द्रियत्वं नास्तीति भावः ॥ २४ ॥ २५ ॥ घमें ग्रीष्मे । आकाशसंश्रयः अनावृतदेशस्थः ॥ २६-२९ ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्वदीपिख्याकायां पालकाण्डव्याख्यायां त्रिषष्टितमः सर्गः ॥ ६३ ॥ ॥१६७॥ For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy