________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
al
अनुगृहीष्व मत्कामतापं शमयेत्यर्थः ॥८॥९॥ तस्यामिति । पञ्चपञ्चचेति दशेत्यर्थः । सुखेन वसन्त्यामित्यन्वयः ॥१०॥ अथेति । सबीड इवेत्यत्र इव शब्दो वाक्यालङ्कारे॥११॥बुद्धिरित्यादिदिकम् । अहोरात्रापदेशेन अहोरात्रतुल्यतया। अन्ते इतिकरणमध्याहार्यम् । इतिबुद्धिरुत्पनेत्यन्वयः॥१२॥१३॥
दृष्ट्वा कन्दर्पवंशगो मुनिस्तामिदमब्रवीत् ॥७॥ अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे । अनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम् ॥८॥ इत्युक्ता सा वरारोहा तत्र वासमथाकरोत् ॥९॥ तस्यां वसन्त्यां वर्षाणि पञ्चपञ्च च राघव । विश्वामित्राश्रमे राम सुखेन व्यतिचक्रमुः॥१०॥ अथ काले गते तस्मिन् विश्वामित्रो महामुनिः। सवीड इव संवृत्तश्चिन्ताशोकपरायणः ॥ ११ ॥ बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन । सर्व सुराणां कर्मेतत्तपोपहरणं महत् ॥ १२॥ अहोरात्रापदेशेन गताः संवत्सरा दश । काममोहाभिभूतस्य विनोऽयं प्रत्युपस्थितः ॥ १३॥ विनिश्वसन मुनिवरः पश्चात्तापेन दुःखितः। भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम् ॥ १४॥ मेनकां मधुरै वाक्यविसृज्य कुशिकात्मजः । उत्तरं पर्वतं राम विश्वामित्रो जगामह ॥ १५॥ स कृत्वा नैष्ठिकी बुद्धिं जेतुकामो महायशाः। कौशिकीतीरमासाद्य तपस्तेपे सुदारुणम् ॥ १६॥ तस्य वर्षसहस्रं तु घोरं तप उपासतः। उत्तरे पर्वते राम देवतानामभूद्भयम् ॥ १७॥ आमन्त्रयन समागम्य सर्वे सर्षिगणाः सुराः। महर्षिशब्दं लभतां साध्वयं
कुशिकात्मजः ॥१८॥ देवतानां वचः श्रुत्वा सर्वलोकपितामहः । अब्रवीन्मधुरं वाक्यं विश्वामित्रंतपोधनम्॥१९॥ विनिश्वसन्नित्यादिदिकम् । वेपन्ती वेपमानाम् । मधुरैः त्वया किं कृतम् ? कामपरतन्त्रस्य ममैवापराधोऽयमित्येवंरूपरित्यर्थः । उत्तरं पर्वतं हिमवन्तम् | ॥१४॥ १९॥ स इति । नैष्ठिकी व्रतसमापनपर्यन्ताम् । जेतुकामः इन्द्रियाणीति शेषः ॥ १६-१९॥ भावः ॥६-९॥ तस्यामिति । पञ्च पश्च दशेत्यर्थः ॥ १०॥ ११ ॥ बुद्धिरिति । अहोरात्रापदेशेन-अहोरात्रच्छमना अहोरात्रसादृश्येनेति यावत् ॥ १२ ॥ १३ ॥ विनिश्वसन्निति । वेपन्तीम-वेपमानाम् ॥ १४ ॥ १५ ॥ स इति । नैष्ठिकी व्रतसमापनपर्यन्ताम्-बुद्धि व्यवसायात्मिकाम् ॥ १६-२२॥
१ करोत् । तपसो हि महाविघ्नो विश्वामित्रमुपागतः । इत्यधिकः पाठः ।
-
-
For Private And Personal Use Only