________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
जा.रा.भू. तोषितः ॥ २६ ॥ स चेति । समाप्तवान् प्राप्तवान् । नतु 'हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजपुत्र आस' इत्यादिवचत्राह्मणो केतिहासविरुद्धोऽयं कथमुप १६६॥पद्यत इतिचेत्, अम्बरीषस्यैव हरिश्चन्द्र इति संज्ञान्तरमित्यविरोधस्य नेयत्वात् ॥ २७ ॥ २८ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने द्विषष्टितमः सर्गः ॥ ६२ ॥ पुत्रविषयक्रूरशापदानेन क्रोधनिर्जयाभावान्न ब्रह्मर्षित्वसिद्धिरित्याह त्रिषष्टितमेस च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान्। फलं बहुगुणं राम सहस्राक्षप्रसादजम् ॥२७॥ विश्वामित्रोऽपि धर्मात्मा भूयस्तेपे महातपाः । पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च ॥ २८ ॥ इत्यार्षे श्रीरा • बालकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥ पूर्ण वर्षसहस्रे तु तत्रातं महामुनिम । अभ्यागच्छन् सुराः सर्वे तपःफलचिकीर्षवः ॥ १ ॥ अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः । ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः ॥ २ ॥ तमेवमुक्त्ता देवेशस्त्रिदिवं पुनरभ्यगात् ॥ ३ ॥ विश्वामित्रो महातेजा भूयस्तेपे महत्तपः ॥ ४ ॥ ततः कालेन महता मेनका परमाप्सराः । पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे ॥ ५ ॥ तां ददर्श महातेजा मेनकां कुशिकात्मजः । रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा ॥ ६ ॥ पूर्ण इत्यादि । व्रतस्त्रातं व्रतान्ते नातम्, समाप्तपुरश्चरणमितियावत् । तपःफलचिकीर्षवः तपः फलं दातुमिच्छवः ॥ १ ॥ अब्रवीदिति । ऋषिस्त्वमसि पूर्वतपसा राजर्षिरसि इदानीमृषिरेवासि, अनेन राजपदाप्रयोगेण क्षत्रियत्वविश्लेषः कियान् कृत इतिगम्यते ॥ २ ॥ विश्वामित्रो महातेजा भूयस्तेपे महत्तप इति । अत्र गायत्रीतृतीयाक्षरम् || ३||४ ॥ अथास्य जितेन्द्रियत्वाभावख्यापनाय कथान्तरं प्रस्तौति- ततः कालेनेत्यादि । अप्सरइशब्द एक वचनान्तोप्यस्ति । देवप्रेषितेति सिद्धम् ॥ ५ ॥ तामिति । तत्र सरसि स्रान्ती मेनका जलद मण्डलमध्यवर्तिनी विद्युदिव स्थितेति भावः ॥ ६ ॥ ७ ॥ तुष्टावेति वेदितव्यम् । सहस्राक्ष इत्यनेन अग्न्युपेन्द्रयोरुपलक्षणम् ॥ २५ ॥ २६ ॥ स चेति । फलं समाप्तवान ||२७|| २८ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामा यणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां द्विषष्टितमः सर्गः ॥ ६२ ॥ पूर्ण इति । व्रतस्नातं व्रतान्ते स्नातम् । तपःफलचिकीर्षवः तद्दातुकामाः ॥ १ ॥ अब्रवीदिति । ऋषिः त्वमसि पूर्वतपसा राजर्षिरसि, इदानीमृषिरेवासीतिभावः ॥ २ ॥ ३ ॥ गायत्र्यास्तृतीयाक्षरं विश्वामित्र इत्यस्य श्लोकस्य प्रथमाक्षरेण वीत्यनेन संगृह्णाति विश्वामित्रो महातेजा इति ॥ ४ ॥ ५ ॥ तामिति । विद्युतं जलदे यथा, सरसि स्नान्ती मेनका जलदमण्डलवर्तिनी विद्युदिव स्थितेति ।
For Private And Personal Use Only
टी.चा.कां. २०६३
११६६॥