SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir पवित्रेति । पाशैः दर्भरशनादिभिः। आसक्तः बद्धः । वैष्णवं विष्णुदेवताकम् “वैष्णवो वै देवतया यूपः" इतिश्रुतेः। वाग्भिः वक्ष्यमाणगाथाद्वय रूपाभिः । अग्नि प्रत्युदाहर स्तुहि, अग्न्यभिमुखोभृत्वा इन्द्रमिन्द्रानुजं च स्तुहीत्यर्थः ॥ १९॥ गाथे दर्शयति-इमे इति । गाथे इन्द्रोपेन्द्रविपये एका इन्द्रविषया, अन्या उपेन्द्रविषया । ततः गाथाभ्यां सिद्धि जीवितसिद्धिम् ॥२०॥ शुनःशेप इत्यादि ॥ २१ ॥ सदः यज्ञबाटमित्यर्थः ॥२२॥२३॥ सद पवित्रपाशैरासक्तो रक्तमाल्यानुलेपनः । वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहरं ॥ १९॥ इमे तु गाथे । दिव्ये गायथा मुनिपुत्रक । अम्बरीषस्य यज्ञेऽस्मिंस्ततः सिद्धिमवाप्स्यसि ॥ २०॥ शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः। त्वरया राजसिंहं तमम्बरीषमुवाच ह ॥२१॥राजसिंह महासत्त्व शीघ्रं गच्छावहे सदः। निवर्तयस्व राजेन्द्र दीक्षां च समुपाविश ॥ २२॥ तद्वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमुत्सुकः। जगाम नृपतिः शीघ्रं यज्ञवाटमत न्द्रितः॥ २३ ॥ सदस्यानुमते राजा पवित्रकृतलक्षणम् । पशुं रक्ताम्बरं कृत्वा यूपे तं समवन्धयत् ॥२४॥ स । बद्धो वाग्भिरग्र्याभिरभितुष्टाव वै सुरौ । इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः ॥ २५ ॥ ततः प्रीतः सहस्राक्षो रहस्यस्तुतितर्पितः। दीर्घमायुस्तदा प्रादाच्छुनःशेपाय राघव ॥२६॥ स्यानुमते सदस्यानाम् उपद्रष्टप्रभृतीनाम् अनुमते अनुमतौ स्थितइतिशेषः। पवित्रैर्दभरज्जुभिः कृतलक्षणं कृतलाञ्छनम् । कृतपशुत्वज्ञापनमित्यर्थः ।।। पशुं कृत्वा उपाकरणादिसंस्कारसंस्कृतं कृत्वा ॥२४॥ सइति । इन्द्रं पशुभोक्तारम् । इन्द्रानुजं यूपदेवं तुष्टाव । इन्द्रानुजं पुरुषकारीकृत्य फलप्रदमिन्द्र स्तुतवानित्यर्थः ॥२५॥ तत इन्द्रस्यैव फलप्रदत्वमाह-तत इति । प्रीतः स्वस्तुत्या तुष्टः । रहस्यस्तुतितर्पितः स्वस्वामिभूतविष्णुरहस्यस्तुत्या भयरहितम् ॥ १८ ॥ पवित्रेति । पवित्रपार्शः दर्भरशनादिभिः । वैष्णवं विष्णुसम्बन्धिनं यूपं । यूपस्य वैष्णवत्वम्-"वैष्णवो वै देवतया यूपः" इति श्रुतिप्रसिद्धम् । वाग्भिः आग्नेयीभिः ऋग्भिः अग्निमुदाहर स्तुहि ॥ १९॥ इमे इति । गाये इन्द्रोपेन्द्रप्रकाशके । सिद्धिं जीवितसिद्धिम् ॥ २०-२३ ॥ सदसीति । सदास। यज्ञसदसि । पवित्रेदर्भरजुभिः । कृतलक्षणं कृतलाञ्छनम् । तं शुनश्शेफम् । पशुं पशुसंसस्कारसंस्कृतं कृत्वा समबन्धयत् समयोजयत् ॥२४॥ स बद्ध इति । अमितुष्टाव वै सुरावित्युपदेशसमये अग्निं वाग्मिरुदाहर इमे द्वे गाये गायथा इति मुनिनोक्तत्वात् । वाग्भिरग्निमभिष्य तदनन्तरगाथाद्वयगानेन इन्द्रोपेन्द्रावमि | १ मुदाहर । इन्द्राविष्णू सुरश्रेष्मी स्तुाहे त्वं मुनिपुत्रक । इत्यधिकः पाठः । For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy