________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्वर्गस्यान्यमिन्द्रं करिष्यामि, अथवा मया सृज्यस्स्वर्गलोकोऽनिन्द्रको वास्तु । तत्र त्रिशङ्करेवेन्द्रो भवतु, तत्परिवारान् सृजेयमिति तादृशदेवान् स्रष्टु मुपचक्रम इत्यर्थः ॥ २२ ॥ तनि० - अन्यमिन्द्रं करिष्यामि विद्यमानभुवनस्येन्द्रान्तरं करिष्यामि । लोको वा स्यात्सेन्द्रं लोकान्तरं वा स्यादित्यर्थः । अनिन्द्रकः स्यात् विद्यमानं भुवनं इन्द्ररहितमनायकं वा स्यादित्यर्थः । इदं च "अन्येन्त्रकं भुवनमन्यदनिन्द्रकं वा कर्तुं क्षमे कविरभूदयमन्ववाये" इति वेदान्ताचार्योक्तिस्वारस्यायुक्तम्॥२२॥ तत इति । परमसम्भ्रान्ताः स्वप्रतिसृष्टेरतिदुःसहत्वादिति भावः । सानुनयं ससान्त्वम् ॥ २३ ॥ अनुनयमेवाह - अयमित्यादि । नार्हति ततः परमसम्भ्रान्ताः सर्षिसङ्घाः सुरासुराः । विश्वामित्रं महात्मानमूचुः सानुनयं वचः ॥ २३ ॥ अयं राजा महा भाग गुरुशापपरिक्षतः । सशरीरो दिवं यातुं नार्हत्येव तपोधन ॥ २४ ॥ तेषां तद्वचनं श्रुत्वा देवानां मुनिपुङ्गवः । अब्रवीत् सुमहद्वाक्यं कौशिकः सर्वदेवताः ॥ २५ ॥ सशरीरस्य भद्रं वस्त्रिशङ्कारस्य भूपतेः । आरोहणं प्रति ज्ञाय नानृतं कर्तुमुत्सहे ॥ २६ ॥ स्वर्गेऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः । नक्षत्राणि च सर्वाणि मामकान ध्रुवाण्यथ ॥ २७॥ यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः । मत्कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ ॥ २८ ॥ एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुङ्गवम् ॥ २९ ॥ भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः । गगने तान्यनेकानि वैश्वानरपथाद्वहिः ॥ ३०॥
ઢ
Acharya Shri Kailassagarsuri Gyanmandir
अदुष्टत्रैवर्णिकलभ्यत्वात्स्वर्गस्येतिभावः ॥ २४ ॥ तेषामिति चत्वारः ॥ २५ ॥ भद्रं व इति प्रतिसान्त्वम् ॥ २६ ॥ स्वर्गेऽस्तु अयं त्रिशङ्कुस्थितिदेश एवेतिशेषः । मत्कृतानि मत्सृष्टानि । अतएव मामकानि लोकाः भूरादयः यावद्धरिष्यन्ति स्थास्यन्ति । सर्वशः सर्वप्रकारेण ध्रुवाणि भवन्तु । प्रार्थ नायां लोट् । तत् पूर्वोक्तम् । अनुज्ञातुमङ्गीकर्तुम् ॥२७॥२८॥ एवमुक्ता इत्यादिसार्द्धाः पञ्च । सर्वशः सर्वाणि । वैश्वानरपथात् वैश्वानरः ज्योतिः तत्पथात् तमपि मत्तपः सामर्थ्यात्स्वर्गभ्रष्टं करोमीति भावः । देवतानि देवगणान् ॥ २२ ॥ तत इत्यादि । ततः इन्द्रादिसर्गोपक्रमात् । स्वर्गोऽस्त्विति सशरीरस्यास्यै वेत्यन्वयः ॥ २३-२६ ॥ मामकानि मया सृष्टानि सर्वशः सर्वप्रकारेण । धरिष्यन्ति स्थास्यन्ति । अनुज्ञातुम् अङ्गीकर्तुम् ॥ २७ ॥ २८ ॥ एवमित्यादि । वैश्वानरपथादुत्तरायणमार्गाद्वहिः नक्षत्राणि त्वया निर्मितानीत्यर्थः ॥ २९ ॥ ३० ॥
For Private And Personal Use Only