________________
Shri Mahavir Jain Aradhana Kendra
चा.रा.भू. ॥ १६०॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जातिचण्डालस्य कदाचित्तद्भावनिवृत्तिरस्ति, नतु कर्मचण्डालस्येत्याह एकोनषष्टितमे-उक्तवाक्यमित्यादि । साक्षाञ्चण्डालरूपिणं चण्डालचिह्नधारि त्वान्न शास्त्रगम्यचण्डालभाव इत्यर्थः ॥ १ ॥ ऐक्ष्वाकेत्यादि चत्वारः । यज्ञसाह्यकरान् यज्ञसहायकरान् । गमिष्यसि स्वर्गमितिशेषः । अनेनेत्यनेन ऋषि शापकृतरूपस्य ब्रह्मणाप्यवार्यत्वेन जाति चण्डालताभावेन मत्तपोमहिमोपबृंहितयज्ञेन सशरीरः स्वर्गे गमिष्यसीति भावः । हस्तप्राप्तम् अनायासेन उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः । अब्रवीन्मधुरं वाक्यं साक्षाञ्चण्डालरूपिणम् ॥ १ ॥ ऐक्ष्वाक स्वागतं वत्स जानामि त्वां सुधार्मिकम् । शरणं ते भविष्यामि मा भैषीर्नृपपुङ्गव ॥ २ ॥ अहमामन्त्रये सर्वान् महर्षीन पुण्यकर्मणः । यज्ञसाह्यकरान् राजंस्ततो यक्ष्यसि निर्वृतः ॥ ३ ॥ गुरुशापकृतं रूपं यदिदं त्वयि वर्तते । अनेन सह रूपेण सशरीरो गमिष्यसि ॥ ४ ॥ हस्तप्राप्तमहं मन्ये स्वर्ग तव नराधिप । यस्त्वं कौशिकमागम्य शरण्यं शरणागतः ॥ ५ ॥ एवमुक्त्वा महातेजाः पुत्रान् परमधार्मिकान् । व्यादिदेश महाप्राज्ञान् यज्ञसम्भारकारणात् । सर्वान शिष्यान् समाहूय वाक्यमेतदुवाच ह ॥ ६ ॥ सर्वानृषिगणान् वत्सा आनयध्वं ममाज्ञया । सशिष्यसुहृद. चैव सत्विजः सबहुश्रुतान् ॥ ७ ॥ यदन्यो वचनं ब्रूयान्मद्वाक्यवलचोदितः । तत्सर्वमखिलेनोक्तं ममाख्येयमना
तम् ॥ ८ ॥ तस्य तद्वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया । आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः ॥ ९ ॥ ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम् । ऊचुश्च वचनं सर्वे सर्वेषां ब्रह्मवादिनाम् ॥ १० ॥ सद्योलब्धम् । तत्र हेतुः यस्त्वमिति ॥ २९ ॥ एवमिति सार्द्धः । शिष्यान् भृत्यान् ॥ ६ ॥ सर्वानिति । सुहृदः मत्सुहृदः शोभनहृदयान्वा ॥ ७ ॥ यदन्य इति । मद्वाक्यबलेन चोदितः आहूतः यः कश्चनान्यः अनाहतमुपेक्षारूपं चण्डालं याजयतीति निन्दारूपं वा, यद्वाक्यं ब्रूयात् तेनोक्तं तत्सर्व मखिलेन ममाख्येयम् ॥ ८ ॥ तस्येति द्वौ । ब्रह्मवादिनः शिष्याः । ब्रह्मवादिनां वचनमित्यन्वयः ॥ ९ ॥ १० ॥ उक्तवाक्यमिति ॥ १-३ ॥ गुरुशापकृतं गुरुशापेन कृतम् ॥ ४ ॥ हस्तप्राप्यम् अनायासलभ्यम् ॥ ५७ ॥ यदन्य इति । मद्वाक्यबलेन चोदितः आहृतः अन्योपि यः कश्चन मद्वचनमनादृतम् आहतमादरः तद्रहितम् अखिलेन सर्वेणाप्युक्तम् । तत्सर्वमाख्येयम् ॥ ८-१० ॥
For Private And Personal Use Only
टी.बा. कां. स० ५९
॥ १६०॥