________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
सौम्येति सम्बुद्धिः । दर्शनं बुद्धिः । तच्च फलं क्रतुशतफलं सशरीरस्वर्गः ॥ १९ ॥ वसिष्टप्रत्याख्यानमूलं पापं मयि नास्तीत्याशयेनाह - अनृतमिति । यद्वा 'यज्ञोऽनृतेन क्षरति ' इति वचनात् क्रतुनाशकत्वेनावगत मनृतमपि मयि नास्तीत्याह । मे मया । तत्साक्षितयेत्यर्थः । कृच्छ्रेष्वपि गतः आपतोपि ते पुरत इति शेषः ॥ २० ॥ यज्ञैरिति । पूर्व सशरीरत्वसाधनक्रतुशतमुक्तम्, अत्र नित्यकर्मेति भिदा । पूर्व क्रतुशतम् इष्टम्, यष्टु
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन । कृच्छ्रेष्वपि गतः सौम्य क्षत्रधर्मेण ते शपे ॥ २० ॥ यज्ञैर्वहुविधैरिष्टं प्रजा धर्मेण पालिताः । गुरवश्च महात्मानः शीलवृत्तेन तोषिताः ॥ २१ ॥ धर्मे प्रयतमानस्य यज्ञं चाहर्तुमिच्छतः । परितोषं न गच्छन्ति गुरवो मुनिपुङ्गव ॥ २२ ॥ दैवमेव परं मन्ये पौरुषं तु निरर्थकम् । दैवेनाक्रम्यते सर्व दैवं हि परमा गतिः ॥ २३ ॥ तस्य मे परमार्तस्य प्रसादमभिकक्षितः । कर्तुमर्हसि भद्रं ते देवोपहतकर्मणः ॥ २४ ॥ नान्यां गतिं गमिष्यामि नान्यः शरणमस्ति मे । दैवं पुरुषकारेण निवर्तयितुमर्हसि ॥ २५ ॥
इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टपञ्चाशः सर्गः ॥ ५८ ॥
मुपक्रान्तमित्यर्थः । तच्च नावाप्यते तादृशकत्वनुष्ठान मनोरथो नावाप्यत इत्यर्थः । शीलवृत्तेन शीलयुक्तवृत्तेन । शीलं सगुणः, वृत्तमाचारः ॥२१॥ धर्म इति । प्रयतमानस्येति सप्तम्यर्थे षष्ठी । ममेतिशेषः ॥ २२ ॥ दैवमिति । अत इत्युपस्कार्यम् । दैवमत्र प्रारब्धफलमदृष्टम् । परं श्रेष्टम्, पुरुपहिताहित प्रापकमित्यर्थः । पौरुषम् इदानीन्तनधर्मानुष्ठानम् । निरर्थकं प्रारब्धकर्मतिरस्कारानई मित्यर्थः । आकम्यते अभिभूयते । परमा गतिः, इतरतिर स्कारेणैौहिक सुखदुःखादिप्रापकमित्यर्थः ॥ २३|| तस्येति । प्रसादं देवानुकूल्यम् ||२४|| नेति । गतिं शरणम् । वसिष्ठेन स्वयमाहूत श्रेत्किं करिष्यसी त्यत्राह - नान्यः शरणम् अस्तीति पुरुषकारेण त्वत्प्रसादरूपानुकूल्यकरणेन ॥ २५ ॥ इति श्रीगो० श्रीरामणि बाल ० अष्टपञ्चाशः सर्गः ॥ ५८ ॥ सङ्कल्पम् । मयेति । तच्च फलं क्रतुशतफलम् । नावाप्यते न भुज्यते ॥ १९ ॥ अनृतमिति । यज्ञोऽनृतेन क्षरति" इति वचनात् क्रतुशतनाशकत्वेनावगत मनृतमपि माये नास्तीति भावः । मे मया कृच्छ्रेष्वपि गतः आपद्गतोऽपि ते पुरतः क्षत्रधर्मेण शषे ॥ २०-२२ ॥ देवमिति । देवं भागधेयम् । परमा गतिः प्रधान कारणम् ॥ २३-२५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामयणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायाम् अष्टपञ्चाशः सर्गः ॥ ५८ ॥
For Private And Personal Use Only