________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
.रा.भ.
कर्ममूलत्वेन तदपाये तदपायादित्याह-अथेत्यादि सार्द्धः। चण्डालतां गतः, वक्षःस्थं यज्ञोपवीतमेव वध्यासीदित्यर्थः। नीलवस्त्रधरः कटिस्थपीताम्बर टी.बा.की. मेव चण्डालाईनीलवस्त्रं जातमित्यर्थः । नीलः पूर्व स्थितराजतेज एव नीलवर्णोऽभवदित्यर्थः । एवमुत्तरत्रापि योज्यम् । परुषः रूक्षाङ्गः घस्तमूर्द्धजः हस्वकेशः। चित्यमाल्यानुलेपः चिता इमशानम्, तत्र भवं चित्यं तादृशं माल्यम् अनुलेपः चिताभस्मरूपोऽङ्गरागश्च यस्य स तथा । आयसाभरणः तं दृष्ट्वा मन्त्रिणः सर्वे त्यज्य चण्डालरूपिणम् । प्राद्रवन सहिता राम पौरा येऽस्यानुगामिनः ॥ १२॥ एको हि राजा काकुत्स्थ जगाम परमात्मवान् । दह्यमानो दिवारानं विश्वामित्रं तपोधनम् ॥ १३॥ विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम् । चण्डालरूपिणं राम मुनिः कारुण्यमागतः ॥ १४ ॥ कारुण्यात् स महातेजा वाक्यं परमधार्मिकः । इदं जगाद भद्रं ते राजानं घोररूपिणम् ॥ १५ ॥ किमागमनकार्य ते राजपुत्र महाबल । अयो ध्याधिपते वीर शापाच्चण्डालतां गतः॥१६॥ अथ तदाक्यमाज्ञाय राजा चण्डालतां गतः। अब्रवीत्प्राञ्जलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम् ॥ १७॥ प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च । अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः ॥ १८॥ सशरीरो दिवं यायामिति मे सौम्य दर्शनम् । मया चेष्टं क्रतुशतं तच्च नावाप्यते फलम् ॥१९॥ अयोविकाराभरणः॥११॥ तमिति । स्पष्टम् ॥ १२॥ एक इति । परमात्मवान् परमधृतिमान भूत्वा । दह्यमानः, दुःखेनेतिशेषः। विश्वामित्रं वसिष्ठ वैरिणं जगाम ॥ १३ ॥ विश्वामित्र इति । विफलीकृतं वासिष्टविनाशितहिकामुष्मिकसघनमित्यर्थः॥ १४ ॥ कारुण्यादिति । स्ववंशावमानप्रकटनेन रामस्य कोपो भविष्यतीति सान्त्वयति-भद्रं त इति ॥१५॥ किमिति । चण्डालतां गतः, केन हेतुनेतिशेषः।।१६॥ अथेति। आज्ञाय श्रुत्वेत्यर्थः॥१७॥ प्रत्याख्यात इति । तं काम, यमुद्दिश्य गुर्वायुपासनं कृतमित्यर्थः। विपर्ययः विपरीतप्रयोजनो हेतुविशेषः॥१८॥ कस्ते काम इत्यत्राह-सशरीर इति ।। मक्षाकारः । ध्वस्तमूर्धजा-खर्वमूर्धजः । चित्यं चिताहम् । आयसानि अयोमयानि आभरणानि यस्य ॥ ११ ॥ तमिति । त्यज्य त्यक्त्वा ॥ १२ ॥ १३॥ विश्वामित्र इति । विफलीकृतं वसिष्ठवासिष्टेविफलीकृतमनोरथम् ॥ १४-१७ ॥ प्रत्याख्यात इति । विपर्ययः जातिभ्रंशः ॥ १८ ॥ सशरीर इति । दर्शन
For Private And Personal Use Only