________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsurl Gyanmandir
गुरुत्यागिनां फलं दर्शयत्यष्टपञ्चाशे-ततस्त्रिशोरित्यादि । क्रोधसमन्वितमिति शतविशेषणम्॥१॥ प्रत्याख्यात इति । शाखान्तरम् आश्रयान्तरम्॥२॥ इक्ष्वाकूणामिति । न शक्यं त्वया इक्षाकुणेतिशेषः । सत्यवादिनः, तस्येतिशेषः॥३॥ अशक्यमिति । य कमिति शेषः ॥ ४॥बालिश इति । बालिशः
ततत्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम् । ऋषिपुत्रशतं राम राजानमिदमब्रवीत् ॥१॥ प्रत्याख्यातो हि दुर्बुद्धे गुरुणा सत्यवादिना । तं कथं समतिक्रम्य शाखान्तरमुपेयिवान् ॥२॥ इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमो गुरुः। न चातिक्रमितुं शक्यं वचनं सत्यवादिनः ॥३॥ अशक्यमिति-चोवाच वसिष्ठो भगवानृषिः। तं वयं वै समाहर्त ऋतुं शक्ताः कथं तव ॥४॥ बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः । याजने भगवान शक्तस्त्रैलोक्यस्यापि पार्थिव ॥५॥ अवमानं च तत्कर्तु तस्य शक्ष्यामहे कथम् ॥६॥ तेषां तद्वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम् । स राजा पुनरेवैतानिदं वचनमब्रवीत् ॥ ७॥ प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च । अन्यां गतिं गमिप्यामि स्वस्ति वोऽस्तु तपोधनाः ॥ ८॥ ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम् । शेपुः परमसंक्रुद्धाश्चण्डालत्वं गमिष्यसि ॥९॥ एवमुक्त्वा महात्मानो विविशुस्ते स्वमाश्रमम् ॥ १०॥ अथ रात्र्यां व्यतीतायां राजा चण्डा
लतां गतः । नीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्द्धजः। चित्यमाल्यानुलेपश्च आयसाभरणोऽभवत् ॥११॥ कामूर्खः "मूर्खवेधेयवालिशाः" इत्यमरः॥५॥ अवमानमित्यर्द्धम् । तत् असाध्यार्थसाधनरूपम् ॥६॥तेपामिति दौ। अन्यां गति याजकान्तरम् ॥७॥८॥ ऋषीति । घोराभिसंहितं माक्षात्कुलगुरुं ब्रह्मपुत्र वसिष्ठमतिक्रम्य पुरोहितान्तराश्रयणरूपघोराभिप्राययुक्तमित्यर्थः । गमिष्यसीत्यनन्तरमितिकरणं द्रष्टव्यम् ॥९॥ एवमित्यर्द्धम् ॥ १०॥ अत्र चण्डालत्वं न तत्सादृश्यमात्रम्, किन्तु क्षत्रियत्वप्रहाणेन चण्डालत्वजातिप्राप्तिः। ब्राह्मणत्वादिजातेः तत इति । क्रोधसमन्वितमित्येतदृषिपुत्रशतविशेषणम् ॥ १॥ प्रत्याख्यात इति । शाखान्तरम् अवलम्बान्तरम् ॥ २॥३॥ अशक्यमिति चोबाच यं ऋतु मिति शेषः ॥ ४ ॥ बालिश इति । त्रैलोक्यस्यापि विप्वपि लोकेषु ॥ ५-८॥ ऋषिपुत्रा इति । घोराभिसंहितं घोराभिप्रायसंयुक्तम् ॥९॥ १०॥ परुषः]
१ स्वमाश्रमम् । तथ्यकृत्वा घोरसङ्काशमृपिपुत्रस्य भाषितम् । प्राविशत्स्वपुरं राजा चिन्तयामास दुःस्थितः ।। षधिकः पाठः ।
For Private And Personal Use Only