________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू. ॥१५॥
यत्र तेपिरे तत्र गत्तेति शेषः। शतं वासिष्ठानिति बह्वथै शतमिति निपातनात् सामानाधिकरण्यम् ॥ १४॥ स इति सार्द्धः । ह्रिया वसिष्ठप्रत्यादी .बा.की. ख्यानकृतया। महात्मानः सुमहात्मान इति व्यत्ययेन प्रथमा ॥१५॥ शरणमिति । शरणं रक्षितारम् आगतः "शरणं गृहरक्षित्रोः" इतिवचनात् । |रक्षित्रपेक्षया आगतोऽहम् । शरण्यान शरणसमर्थान् । शरणं प्रपद्ये रक्षितॄन् प्रानोमीत्यर्थः । यद्वा शरणागतः प्रत्याख्यात इत्युत्तरेणान्वयः । तया । स० ५७
सोऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान् । अभिवाद्यानुपूव्र्येण हिया किञ्चिदवाङ्मुखः।अब्रवीत्समहात्मानः सर्वानेव कृताञ्जलिः ॥ १५॥ शरणं वः प्रपद्येऽहं शरण्याद शरणागतः। प्रत्याख्यातोऽस्मि भद्रं वो पसिष्टेन महा त्मना ॥ १६॥ यष्टकामो महायज्ञं तदनुज्ञातुमर्हथ । गुरुपुत्रानहं सर्वान्नमस्कृत्य प्रसादये ॥१७॥ शिरसा प्रणतो याचे ब्राह्मणांस्तपसि स्थितान् । ते मां भवन्तः सिद्धयर्थ याजयन्तु समाहिताः । सशरीरो यथाहं हि देवलोक मवाप्नुयाम् ॥ १८॥ प्रत्याख्यातो वसिष्टेन गतिमन्यां तपोधनाः । गुरुपुत्रानृते सर्वान्नाहं पश्यामि कांचन ॥१९॥ इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः । पुरोधसस्तु विद्वांसस्तारयन्ति सदा नृपान् ॥२०॥ तस्मादनन्तरं
सर्वे भवन्तो दैवतं मम ॥२३॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तपञ्चाशः सर्गः॥१७॥ चार्य एव गन्तव्य इत्यत्राह प्रत्याख्यात इति ॥ १६॥ किमर्थं शरणागतिस्तत्राह-यष्टुकाम इति । तत् यज्ञानुष्ठानम् ॥ १७॥ शिरसेति सार्द्धः ।। ब्राह्मणान ब्रह्मविदः। समाहिताः अवहिताः ॥ १८॥ प्रत्याख्यात इति । गुरुपुत्रानृते अन्यां कांचन गतिं यजनोपायं न पश्यामीत्यन्वयः ॥१९॥ इक्ष्वाकणामिति । पुरोधाः पुरोहितः वसिष्ठः ॥२०॥ तस्मादित्यहम् । तस्मात् वसिष्ठात् । अनन्तरं पश्चात् । तस्यारक्षकले भवन्त एव रक्षका इतिभावः॥२१॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ॥२७॥
| 12:4|3 सोभिगम्येति । महात्मानः महात्मनः ॥ १५-१९ ॥ इक्ष्वाकूणामिति । पुरोधाः वसिष्ठः ॥ २० ॥ तस्मादिति । तस्मादसिष्ठादनन्तरं पश्चात् ॥ २१॥ इति श्रीमहेश्वरतीर्थकतायां श्रीरामायणतत्त्वदीपिकारख्यायो बालकाण्डव्याख्यायो सप्तपचाशः सर्गः ॥५७॥
For Private And Personal Use Only