________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मित्यादि चत्वारः । ब्रह्मा ब्रह्मलोकं जगाम, त्रिविष्टपं देवा जग्मुरित्यर्थः ॥ ६॥ समन्युः सदेन्यः “मन्युदैन्ये कतौ अघि " इत्यमरः ॥ ७॥ नास्ति। मन्ये तपःफलम् । एतन्मात्र मत्तपः फलं न भवति, ब्राह्मण्यस्यैव मदाभिमतत्वादिति भावः ॥८॥ परमं तपः पूर्वकृततपसोप्यतिशयितं तपः। परमात्मवान् अतिशयितयत्नवान् ॥ ९॥ एतस्मिन्निति । विख्यातः, अभूदितिशेषः॥ १०॥ तस्येति । सशरीरेण, आत्मनेतिशेषः । परमां गति । विश्वामित्रोपि तच्छ्रुत्वा ह्रिया किञ्चिदवाङ्मुखः । दुःखेन महताविष्टः समन्युरिदमब्रवीत् ॥ ७॥तपश्च सुमहत्तप्तं राजर्षिरिति मां विदुः । देवाः सर्षिगणाः सर्वे नास्ति मन्येतपःफलम् ॥८॥ एवं निश्चित्य मनसा भूय एव महा तपाः। तपश्चकार काकुत्स्थ परमं परमात्मवान् ॥ ९॥ एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः । त्रिशङ्कुरिति विख्यात इक्ष्वाकुकुलवर्द्धनः॥ १०॥ तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव । गच्छेयं सशरीरेण देवानां परमां गतिम् ॥11॥स वसिष्टं समाहूय कथयामास चिन्तितम् । अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना ॥१२॥ प्रत्याख्यातो वसिष्टेनस ययौ दक्षिणां दिशम्। ततस्तत्कर्मसिद्धयर्थ पुत्रांस्तस्य गतो नृपः॥१३॥वासिष्ठा दीर्घतपस
स्तपा यत्र हि तेपिरे । त्रिशङ्कः सुमहातेजाः शतं परमभास्वरम् । वसिष्ठपुत्रान् ददृशे तप्यमानान् यशस्विनः॥१४॥ स्वर्गमिति यावत ॥ ११॥ स इति । चिन्तितम् सशरीरस्वर्गसाधनयज्ञमित्यर्थः । अशक्यं सशरीरस्वर्गसाधनयज्ञकरणमितिशेषः । अशक्यत्वं च न । ऋषरसामा नापि ताहाकर्मविधानाभावात्, “सशरीर एन स्वर्ग लोकमेति" इतिश्रुतेः। किन्तु त्रिशोस्तादृशस्वर्गप्राप्तिनास्तीति पूर्वकल्पवृत्त तज्ज्ञानानिति मन्तव्यम् । उक्तः अभूदितिशेषः॥१२॥प्रत्याख्यात इति। तत्कर्मसिद्धयर्थ सशरीरस्वर्गसाधनकर्मसिद्ध्यर्थम्॥१३शावासिष्टा इति साधः। विश्वामित्र इति । समन्युः सदैन्यः॥ ७-९ ॥ एतस्मिन्निति । विशङ्करिति विख्यातः, य इति शेषः ॥१०॥ तस्यति । परमां गतिम् सशरीरस्वर्गगमनम्।।११॥१२॥ प्रत्याख्यातः निराकृतः। तस्य वसिष्ठस्य ॥ १३ ॥ १४ ॥
विषम-परमात्मवान् परमात्मध्यानवान् परमवीरथ ॥ ९॥
For Private And Personal Use Only