________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अभिपूजितम् अभिमतम् । तसत्वं यथाकामं ममकृते अभिवत्यन्वयः। “ अर्थे कृते च तादर्थे निपातयमव्ययम्" इतिनिघण्टुः ॥२२॥ रसेनेति । रसेन रसायनभेदेन, अन्नेन भक्ष्येन शष्कुलीलाजादिना, पानेन पेयेन पानकरसादिना, लेझचोष्येण लेयेन जिह्वास्वायेन क्षौदादिना, चोष्येण अधरपुटयाह्येण दध्यादिना च समन्वितम् । “सर्वो द्वन्दो विभाषयकवद्भवति" इत्येकवद्भावः । अन्नानां शाल्यन्नादीनाम् । निचयं राशिम् ।
रसेनान्नेन पानेन लेह्यचोष्येण संयुतम् । अन्नानां निचयं सर्व सृजस्व शबले त्वर ॥ २३ ॥
इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विपञ्चाशः सर्गः ॥५२॥ एवमुक्ता वसिष्ठेन शबला शत्रुसूदन । विदधे कामधुक्कामान यस्ययस्य यथेप्सितम् ॥ १॥ इक्षुन मधूंस्तथा लाजान मैरेयांश्च वरासवान । पानानि च महार्हाणि भक्ष्यांश्वोच्चावचांस्तथा ॥२॥
उष्णाढयस्यौदनस्यात्र राशयः पर्वतोपमाः। मृष्टान्नानि चमूपाश्च दधिकुल्यास्तथैव च ॥३॥ अनेन भक्ष्यभोज्यलेयचोष्यपेयखाद्यरूपपविधाभ्यवहारा दर्शिताः ॥ २३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बाल काण्डव्याख्याने द्विपञ्चाशः सर्गः ॥५२॥ कामधेनुप्रार्थनं त्रिपञ्चाशे-एवमुक्तेत्यादि । यस्ययस्य यथेप्सितं तथा कामान् कांक्षितान् विदघे ॥१॥ उक्तमेव प्रपञ्चयति-इक्षुनित्यादि। मधूनिति पुंलिङ्गत्वमार्षम् । मैरेयाः मद्यविशेषाः मैरेयाख्यानित्यर्थः । “मेरेयमासवो धात्रीघातकीगुडवारिभिः " इति वैजयन्ती। अत्र कृतमिति शेषः । पानानि पानकादीनि, भक्ष्यान् अपूपविशेषान्, उच्चावचान् नानाप्रकारान् । “उच्चावचं नैकभेदम्" इत्यमरः। विदध इत्यनुपज्यते ॥२॥ उष्णेति । आसन्निति शेषः । मृष्टान्नानि इष्टान्नानि, पायसभेदा इति यावत् ॥ ३॥ अभिमतं तत्सर्व यथाकामं ममकृते अभिवर्ष प्रवर्षस्वेत्यर्थः ॥ २२ ॥रसेनेति । रसेन रसवता अन्नेन भक्ष्येण शकुल्यादिना, पानेन पेयेन पानकरसादिना । लेखेन जिह्वास्वाद्येन क्षौद्रादिना । चोष्येण अधरपुटग्राह्यण दध्यादिना । अन्नानां निचयं शाल्यत्राज्यादिमोज्यसमूहम् । सर्वमुच्चावचम् । शबले इति धेनु सम्बोधनम् ॥ २३ ॥ इति श्रीमहेश्वरती विरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां द्विपक्षाशः सर्गः ॥ ५२ ॥ एवमिति । यस्य यस्य यथा यथेप्सितम्, तथा तथा कामान् कोक्षितान् विदधे निर्ममे ॥ १॥ इनिति । उच्चावचान अनेकविधान ॥२॥ उष्णेति । उष्णाव्यस्य उष्णस्पर्शवतः ।
For Private And Personal Use Only