________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
उपविष्टायेत्यादिचत्वारः । फलमूलमिति “जातिरप्राणिनाम्” इत्येकवत्त्वम् । राजसत्तमं प्रतीतिशेषः॥ ३-६ ।। कच्चिदित्यादित्रयः । कञ्चिदिति कामप्रवेदनेऽव्य यम् “ कञ्चित्कामप्रवेदने " इत्यमरः । तव कुशलं ममेप्सितमित्यमुमर्थे द्योतयति । राजवृत्तेन चतुर्विधेन उपलक्षितः । यथाहुः- “ न्यायेनार्जनमर्थस्य उपविष्टाय च तदा विश्वामित्राय धीमते । यथान्यायं मुनिवरः फलमूलमुपाहरत् ॥ ३ ॥ प्रतिगृह्य च तां पूजां वसिष्ठा द्राजसत्तमः । तपोग्निहोत्रशिष्येषु कुशलं पर्य्यष्टच्छत् ॥४॥ विश्वामित्रो महातेजा वनस्पतिगणे तथा । सर्वत्र कुशलं चाह वसिष्ठो राजसत्तमम् ॥ ५ ॥ सुखोपविष्टं राजानं विश्वामित्रं महातपाः । पप्रच्छ जपतां श्रेष्ठो वसिष्टो ब्रह्मणः सुतः ॥ ६ ॥ कच्चित्ते कुशलं राजन् कच्चिद्धर्मेण रञ्जयन् । प्रजाः पालयसे वीर राजवृत्तेन धार्मिक ॥ ७ ॥ कच्चित्ते सम्भृता भृत्याः कच्चित्तिष्ठन्ति शासने । कच्चित्ते विजिताः सर्वे रिपवो रिपुसूदन ॥ ८ ॥ कच्चिद्रलेषु कोशेषु मित्रेषु च परन्तप । कुशलं ते नरव्याघ्र पुत्रपौत्रे तवानघ ॥ ९ ॥ सर्वत्र कुशलं राजा वसिष्टं प्रत्युदाहरत् । विश्वामित्रो महातेजा वसिष्ठं विनयान्वितः ॥ १० ॥ कृत्वोभौ सुचिरं कालं धर्मिष्ठौ ताः कथाश्शुभाः । मुदा परमया युक्तौ प्रीयेतां तौ परस्परम् ॥ ११ ॥ ततो वसिष्ठो भगवान् कथान्ते रघुनन्दन । विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव ॥ १२ ॥ वर्द्धनं पालनं तथा । सत्पात्रे प्रतिपत्तिश्व राजवृत्तं चतुर्विधम् ॥” इति। सम्भृताः पोषिताः, तिष्ठन्तीतिशेषः । बलेषु चतुरङ्गबलेषु । कोशेषु अर्थसमूहेषु । पुत्रपौत्र इति गवाश्वप्रभृतित्वादेकवत्त्वम् ॥७९॥ सर्वत्रेति । सर्वत्र वसिष्टपृष्ट सर्वविषयइत्यर्थः । वसिष्ठं धनिकम् ॥ १० ॥ कृत्वेति । ताः कथाः अन्योन्य कुशलप्रश्नोत्तररूपाः । प्रीयेतां अप्रीणयताम् ॥ ११ ॥ तत इत्यादित्रयः । प्रहसन्निव प्रसन्नमुख इत्यर्थः । सम्प्रतीच्छ प्रतिगृहाण । उद्यतां चिकीर्षि वनस्पतिशब्देन वृक्षमात्रम्, न तु विना पुष्पं फलवन्त एतद्विषयेऽपि कुशलं पर्यपृच्छत । सर्वत्र तत्पृष्टसर्वविषये ॥ ५ ॥ जपतां तपस्विनाम् ॥ ६ ॥ कञ्चिदिति । कञ्चिदित्यव्ययं कामप्रवेदन परम तव कुशलं ममेप्सितमित्यमुमर्थ द्योतयति । राजवृत्तेन चतुर्विधेन । यथाहुः “न्यायेनार्जनमर्थस्य वर्धनं पालनं तथा । सत्पात्रे प्रतिपत्तिश्व राजवृत्तं चतुर्विधम्" इति। सम्भृताः तोषिताः । बले चतुरङ्गबले । कोशे अर्थसमूहे ॥ ७९ ॥ सर्वत्रेति । वसिष्ठं विनयान्वितम् ' इत्यत्र वसिष्ठमतिशयेन वसुमन्तम्, तपोधनसमृद्धमिति यावत् । यद्वा वसिष्ठशब्दो वरिष्ठवचनः ॥ १० ॥ कृत्वेति । कथा अन्योन्यकुशलप्रश्नोत्तरादिरूपाः परस्परं प्रीयेतां प्रीणयतः स्म ॥ ११ ॥ तत इति । प्रहसन्निव अयं महानतिथिर्लब्ध इति हर्षेण ॥ १२ ॥
२६
For Private And Personal Use Only