________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
।५।
पा.रा.भ. विशेषणाय पुनईरिणोपादानम् । अन्भः अम्मावभक्षः । दान्तर्नियतमनस्कैः । बालखिल्याः ब्रह्मणो वालजा ऋषयः । वैखानसास्तन्नखजाना टी.वा.का.
'ये नखास्ते वैखानसाः ये वालास्ते बालखिल्याः " इति श्रुतेः । वसिष्ठाश्रमवैभववर्णनम् एवम्भूतेनापि सम्मानितो विश्वामित्र इति तस्य वैभव म०५०
नगराणि च राष्ट्राणि सरितश्च तथा गिरीन । आश्रमान क्रमशो राम विचरन्नाजगाम ह ॥ २२ ॥ वसिष्ठ स्याश्रमपदं नानावृक्षसुमाकुलम् । नानामृगगणाकीर्ण सिद्धचारणसेवितम् ॥ २३ ॥ देवदानवगन्धर्वेः किन्नरै रुपशोभितम् । प्रशान्तहरिणाकीर्ण द्विजसङ्घनिषेवितम् ॥ २४ ॥ ब्रह्मर्षिगणसङ्कीर्ण देवर्षिगणसेवितम् । तप श्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः ॥ २५॥ अब्भक्षैर्वायुभःश्च शीर्णपर्णाशनैस्तथा । फलमूलाशनेदन्तैिर्जितरोष जितेन्द्रियैः॥ २६ ॥ ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः। अन्यैवैखानसैश्चैव समन्तादुपशोभितम् ॥ २७॥ वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम् । ददर्श जयतां श्रेष्ठो विश्वामित्रो महाबलः ॥२८॥
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकपञ्चाशः सर्गः ॥५१॥ स दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः। प्रणतो विनयादीरो वसिष्ठं जपतां वरम् ॥ १ ॥
स्वागतं तव चेत्युक्तो वसिष्टेन महात्मना। आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह॥२॥ कथनार्थम् ॥२१-२८॥ इति श्रीगोविन्दराजविराचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्या. एकपञ्चाशः सर्गः ॥५१॥ विश्वामित्रसम्मानं द्विपञ्चाशे-स दृष्ट्वेत्यादि । वसिष्टं दृष्ट्वा, प्रणतः प्रणनाम ॥ १॥ स्वागतमिति । उक्तः उचे । व्यादिदेश दापयामासेत्यर्थः ॥ २॥ अभक्षैरिति। अप एव भक्षयन्तीत्यब्भक्षा, भक्ष्यस्थाने अपामेव स्वीकारात । आहारान्तरनिवृत्तिराद्गम्यते । दान्तनियतमनस्कैः । वालखिल्यैः वालखिल्याख्यैः। वेखानसैः वानप्रस्थाविशेषः । जयतां शूराणाम् ॥ २६-२८ ॥ इति श्रीमहेश्वरतीर्थ बालकाण्डव्याख्यायामेकपञ्चाशः सर्गः ॥५१॥ स इति । प्रणतः कृतप्रणामः॥१॥ स्वागतमिति । व्यादिदेश ह आज्ञापयति म्म ॥२४॥
॥१५॥
For Private And Personal Use Only