________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
सन्धेया ॥ ३४ ॥ एतदेवाह-नास्तामचिन्त्येत्यादि । तपसा ब्रह्मपिः तपसाराममातेवेतिभावः ॥ ११ ॥ तदिति ॥ ३२
मित्यस्य विवरण यत्कर्तव्यमिति । तस्य विवरणं सङ्गतेति । भार्गवेण जमदग्निना । रेणुका परशुराममातेवेतिभावः ॥ ११ ॥ तदिति ॥ १२ ॥ स्वागत मिति । दिष्टया देवयोगेन ॥ १३ ॥ विश्वामित्र स्तौति-अचिन्त्येत्यादि । तपसा ब्रह्मर्षिः तपसा प्राप्तब्रह्मर्षिभावः । परमां गतिं तव परमहितप्रदम् । वत्सीत्यत्र काकुरनुसन्धेया ॥ ३४॥ एतदेवाह-नास्तीति । धन्यत्वे हेतुः गोप्तेति । येन कुशिकपुत्रेण ॥ १५ ॥ श्रूयतामिति । बलं तपोबलम् ।
तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः। शतानन्दो महातेजा रामं वचनमब्रवीत् ॥ १२॥ स्वागतं ते नरश्रेष्ठ दिष्टया प्राप्तोऽसि राघव । विश्वामित्र पुरस्कृत्य महर्षिमपराजितम्॥१३॥अचिन्त्यकर्मा तपसाब्रह्मर्षिरतुलप्रभः। विश्वामित्रो महातेजा वेत्स्येनं परमां गतिम् ॥ १४ ॥ नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन । गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः॥१५॥ श्रूयतामभिधास्यामि कौशिकस्य महात्मनः। यथा बलं यथा वृत्तं तन्मे निगदतः शृणु॥१६॥राजाभूदेष धर्मात्मा दीर्घकालमारिन्दमः । धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः ॥ १७॥ प्रजापतिसुतस्त्वासीत् कुशो नाम महीपतिः। कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः ॥ १८॥ कुशनाभसुतस्त्वासीदाधिरित्येव विश्रुतः। गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः ॥ १९॥ विश्वामित्रो महातेजाः पालयामास मेदिनीम्। बहुवर्षसहस्राणि राजाराज्यमकारयत् ॥ २०॥ कदाचित्तु महातेजा योज यित्वा वरूथिनीम् । अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम् ॥२१॥ यथा यादृशम्, वृत्तं चरित्रं च । यथा यादृशं तथा तत्सर्वं मे मत्तः शृणु ॥ १६ ॥ राजेति ॥ १७ ॥ कस्य राज्ञः पुत्र इत्यत्राह-प्रजापतीत्यादिश्लोक त्रयम् । पालयामासेत्यस्य विवरणं वह्विति ॥ १८-२०॥ कदाचिदित्याद्यष्टौ श्लोकाः। वरूथिनी चतुरङ्गबलम् । योजयित्वा उपस्थाप्य । प्रशान्तत्व तदिति । भाषितम् व्यक्तमुक्तम् ॥ १२ ॥ स्वागतं त इति । अपराजितम् अविहतप्रभावम् ॥१३॥ अचिन्त्येति । तपसा ब्रह्मर्षिः तपसैव ब्रह्मर्षित्वं प्राप्तः॥१४॥१५॥ श्रूयतामिति । बलं क्षत्रबलम्, यथा याहशं, वृत्तं तपोरूपम् , यथा यादृशम् ॥ १६-१९ ॥ अकारयत-स्वायें णिः ॥ २०-२५ ॥
For Private And Personal Use Only