________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
चा.ग.भ.स इति। निषण्णावित्यस्य विवरणं सुखासीनाविति ॥३॥ स्वमातरि रामकृतानुग्रहस्य श्रुतस्य विस्मयावहतया पुनः पृच्छति-अपीत्यादि । अपिटी .बा.का. ४९॥ प्रश्ने । ते त्व्या। दीर्घ तप उपागता पूर्वोक्तभस्मशायित्वादिलक्षणं तपः प्राप्ता । अनेन पाषाणीभूयस्थितेति पक्षो न वाल्मीकः ॥ ४॥
अपीति । रामे रामविषये । वन्यैः कन्दमूलफलादिभिः । अनेन पूर्वमपि वन्यैरेतस्य जीवनमिति गम्यते । सर्वदेहिनां पूजाई इत्यनेन परत्वं व्यन्ति |
स तो निषण्णी सम्प्रेक्ष्य सुखासीनौ नृपात्मजी । शतानन्दो मुनिश्रेष्ठं विश्वामित्रमथाब्रवीन । ३ ॥ अपि ते मुनि शार्दूल मम माता यशस्विनी । दर्शिता राजपुत्राय तपो दीर्घमुपागता ॥ ४॥ अपि राम महातेजा मम माता यशस्विनी । वन्यैरुपाहरत्पूजां पूजाहे सर्वदेहिनाम् ॥५॥ अपि रामाय कथितं यथावृत्तं पुरातनम् । मम मातु महातेजो देवेन दुरनुष्ठितम् ॥६॥ अपि कौशिक भद्रं ते गुरुणा मम सङ्गता । माता मम मुनिश्रेष्ठ रामसन्दर्शना दितः॥७॥ अपि मे गुरुणा रामः पूजितः कुशिकात्मज । इहागतो महातेजाः पूजां प्राप्ती महात्मनः ॥८॥
अपि शान्तेन मनसा गुरुम कुशिकात्मज । इहागतेन रामेण प्रयतेनाभिवादितः ॥९॥ तच्छुत्वा वचनं तस्य विश्वामित्रो महामुनिः । प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम् ॥ १०॥ नातिकान्तं मुनिश्रेष्ठ यत्कर्तव्यं
कृतं मया । सङ्गता मुनिना पत्नी भार्गवेणेव रेणुका ॥ ११॥ तम् ॥५॥ अपीति। हे महातेजः विश्वामित्र ! मम मातुर्विषये देवेन इन्द्रेण विधिना वा । दुरनुष्ठितं दुरनुष्ठानरूपम् । पुरातनं वृत्तं चरितम् । यथा यथा वत् । कथितं चापि कथितं किम् ॥ ६॥ अपीति । गुरुणा पित्रा । इतः अस्मादुपस्थिताद्रामसन्दर्शनात् । यदा रामसन्दर्शनादितः रामसन्दर्शनादिना । तृतीयाथै तसिः। पूजा अपिशब्दार्थः ॥ ७॥ अपीति । इह अस्मदाश्रमे । आगतः महातेजा गुरुः। महात्मनः रामात् पूजां अहल्यालाभरूपाम् । अपि प्राप्तः॥८॥ अपीति । शान्तेन कोपरहितेन मनसोपलक्षितो गुरुः । इह अस्मदाश्रमे। आगतेन प्रयतेन मनःसक्तिरूपयत्नवता । रामेण अभिवादितः किम् ॥९॥ तच्छुत्वेति ॥१०॥नांत । नातिकान्तं मया समयातिकमो न कृतः । समये यत्कर्तव्यं तत्कृतम् । तदेवाह सङ्गतेति । नातिकान्त स ताविति । निषण्णो आसीनो ॥ ३ ॥ अपीति ! अपिः प्रश्ने । ते त्वया ॥४॥५॥ अपि रामायेत्यादि । देवेन विधिना यदनुष्ठितं मातुः सम्बन्धि यद्धृत्तं रामायापि कषितम् निवेदितम् ॥ ६॥ अपीति । रामसन्दर्शनात् रामसन्दर्शनमारभ्य ॥ ७ ॥ अपि म इति । पूजां प्राप्य पूजा स्वीकृत्य ॥८-२०॥ भार्गवेण जमदग्निना॥११॥
For Private And Personal Use Only