________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
बा.ग.भू.
स इति । तान् अर्घ्यदातृन् । सोपाध्यायपुरोधसः-उपाध्याया ऋत्विजः, पुरोधाः शतानन्दः तत्सहितांस्तान्, कुशलं पृष्ट्वेत्यर्थः । सवैजनैःो .बा.कां. शतानन्दऋत्विगादिभिः । प्रहृष्टवत् सहर्षमित्यर्थः । भाषे निष्ठा । यथान्यायं यथाक्रमं पृष्ट्वेत्यन्वयः॥९॥ अथेति ॥ १० ॥ जनकस्येति । राजा चेति विश्वामित्रवचनादित्यर्थसिद्धम् ॥ ११ ॥ आसनेष्विति । उपविष्टान् तानितिशेषः ॥ १२ ॥ अद्येति । यज्ञसमृद्धिः समग्रता जाततिशेषः । सा दैवतैः ।
स तांश्चापि मुनीन् दृष्ट्वा सोपाध्यायपुरोधसः । यथान्यायं ततः सर्वः समागच्छत प्रहृष्टवत् ॥ ९॥ अथ राजा मुनिश्रेष्टं कृताञ्जलिरभाषत । आसने भगवन्नास्तां सहेभिमुनिसत्तमैः ॥ १०॥ जनकस्य वचः श्रुत्वा निषसाद महामुनिः। पुरोधा ऋत्विजश्चैव राजा च सह मन्त्रिभिः ॥ 1 ॥ आसनेषु यथान्यायमुपविष्टान समन्ततः । दृष्ट्वास नृपतिस्तत्र विश्वामित्रमथाब्रवीत् ॥ १२॥ अद्य यज्ञसमृद्धिमें सफला दैवतैः कृता । अद्य यज्ञफलं प्राप्त भगवदर्शनान्मया ॥ १३॥ धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गव । यज्ञोपसदनं ब्रह्मन प्राप्तोऽसि मुनिभिः सह ॥ १४॥ द्वादशाहं तु ब्रह्मर्षे शेषमाहुमनीषिणः । ततो भागार्थिनो देवान द्रष्टुमर्हसि कौशिक ॥ १५ ॥ इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा। पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रणतो नृपः ॥ ६॥ इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ। गजसिंहगती वीरो शार्दूलवृषभोपमा ॥ ७॥ पद्मपत्रविशालाक्षी खड्गातूणीधनुर्द्धरौ। अश्विना विव रूपेण समुपस्थितयौवनौ ॥ १८॥ सफला कृता च । तिष्ठतु यज्ञः, भवदर्शनमव यज्ञफलमित्याह-अद्य यज्ञफलमिति ॥ १३॥ धन्य इति ॥१४॥ द्वादशति । द्वादश अहानि समाहृतानि । द्वादशाई"राजाहः सखिभ्यटन्" इति टच । "न संख्यादेः" इत्यहादेशाभावः। द्वादशदिनान्यवशिष्टानि यज्ञस्येति मनीषिणः ऋत्विज आहुः। ततः भागार्थिनो देवानिति द्वादशदिनान्ते सुत्याहामो भविष्यतीत्यर्थः ।। १५ ।। इतीति । प्रहृष्टेति कुतूहलविशेषः सूच्यते ॥१६॥ इमावित्यादिश्लोक ॥१८॥ स इति । यथान्यायं यथाई तैस्समागच्छत् ॥९-१२ ॥ अद्येति । यज्ञसमृद्भिर्यजानां बाहुल्यम् ॥ १३ ॥ यज्ञोपसदनम् देवयजनम् ॥ १४ ॥ द्वादशाहमित्यादि । मनीषिणः ऋत्विजः द्वादशाहम् द्वादशदिनानि । शेष यज्ञशेषम् ।। १५-१८॥
For Private And Personal Use Only