________________
Acharya Shri Kalassagarsuri Gyanmandit
www.kobatirth.org
Shri Mahavir Jain Aradhana Kendra
दिशोऽन्तरालं यत्सा प्रागुत्तरा ताम्, पेशानी दिशमित्यर्थः । ततः तस्मादाश्रमात् । यज्ञवाट जनकस्येति शेषः ॥ १॥ रामस्त्विति । यज्ञसमृद्धिः यज्ञसम्भारसामग्री ॥२॥ तामेवाइ-बहूनिति । ब्राह्मणानां सहस्राणीत्यन्वयः। दृश्यन्त इति वक्ष्यमाणमनुपज्यते ॥३॥ ऋषीति । ऋषिवाटाः। ऋषिनिवासाः विधीयतां कल्प्यताम् । बहुसङ्खलत्वेनैवमुक्तम् ॥ ४॥ रामस्येति । विविक्ते विजने पूते वा । " विविक्तो पूतविजनौ " इत्यमरः।
रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः। साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः ॥२॥ बानीह सहस्राणि नानादेशनिवासिनाम् । ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम् ॥३॥ऋषिवाटाश्चदृश्यन्ते शकटीशतसङ्कलाः । देशो विधीयतां ब्रह्मन यत्र वत्स्यामहे वयम् ॥४॥ रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः। निवेशमकरोद्देशे विविक्ते सलिलायुते॥५॥ विश्वामित्रमनुप्राप्तं श्रुत्वा स नृपतिस्तदा । शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितम् । । प्रयुत्जगामसहसा विनयेन समन्वितः ॥६॥ ऋत्विजोऽपि महात्मानस्त्वय॑मादाय सत्वरम् । विश्वामित्राय धर्मेण ददुर्मन्त्रपुरस्कृतम्॥७॥ प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः । पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम्॥८॥ आयुते युक्ते । यौतेर्मिश्रणार्थात् क्तः ॥५॥ विश्वामित्रमिति सार्बश्लोकः । प्रत्युजगाम दीक्षितविमितप्रदेशसीमानमनतिलङ्मयनित्यर्थः ॥ ६॥ ऋत्विज इति । अयमित्यातिथ्यस्योपलक्षणम् । मन्त्रपुरस्कृतमित्यनेन मधुपर्ककरणमुच्यते ॥७॥ प्रतिगृह्येति । निरामयं निरुपप्लवत्तम् ॥ ८॥ परन्तरालम् ॥ १ ॥२॥ साधुत्वे हेतु:-बहूनीति । नानादेशनिवासिनी बाह्मणानां बहूनि सहस्राणि । इह जनकस्य यज्ञभूमो सन्तीति शेषः ॥ ३॥ ऋषीति । किश शकटीशतसङ्कलाः मुनिवाहनभूतानां शकटीनां शतेन सङ्कलाः ऋषिवाटाः मुनिनिवासस्थानानि दृश्यन्ने, तथा च अधिकः संमोऽस्तीति भावः । फलि तमर्थ श्रीरामो विज्ञापयति-विधीयतामिति । देशो निवासस्थानम् । विधीयतां कल्प्यताम् ॥४॥ रामस्येति । विविक्के असम्बाधे। सलिलायुते सलिलवनि ॥५॥ विश्वामित्र इति । अनुशतमागतम् ॥ ६॥ विश्वामित्रायेति । धर्मेण धर्मशास्त्रोक्तमार्गेण ॥ ७ ॥ प्रतिगृह्येति । निरापयन अविकलत्वम् ॥ ८॥
विषम-विश्वामित्रमित्यादिसाझोकडूवमेका वयम् । ऋत्विजोऽधीत्यत्र पुरस्कृत्येत्यनुकर्षः । महात्मान इति दितीपार्थे प्रथमा । धर्मेण धर्मशास्त्रमाग । अमिति शेषः । धर्मपुरस्कृतमित्ययविश Vषणम् | "महाजं वा महोक्षं वा प्रोत्रियायोपकल्पयेत् " इति शास्त्रोक्तेन धर्मसाधनेन पुरस्कृतम, तत्सहितमिति यावत् (धर्मपुरस्कृतमि तपाठः) ॥६॥5॥
For Private And Personal Use Only