SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir मित्यस्य विवरणं कस्यायमिति ॥ १२॥ तदिति ॥ १३ ॥ हन्तेति । अहल्यानुग्रहहेतुकालस्मृतिजसन्तोषे इन्तेति । महात्मना कोपाच्छप्तं प्राप्तशापम् । इदमाश्रमपदं यस्य भवति तं कथयिष्यामि तत्त्वेन शृणु ॥ १४ ॥ गौतमस्येति । दिव्यसङ्काशः दिव्यत्वेन भासमानः॥१५॥॥स चेति । वर्षपूगान् वर्षसमूहान् ॥१६॥ तस्येति । अन्तरं मुनिरहितकालम् । मुनिवेषधरः गौतमवषधरः ॥१७॥ ऋत्विति । ऋतुकालं "पोडशर्तुनिशास्त्रीणाम्"इत्युक्त तच्छत्वा राघवेणोक्तं वाक्यं वाक्यविशारदः । प्रत्युवाच महातेजा विश्वामित्रो महामुनिः ॥ १३ ॥ हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव । यस्यैतदाश्रमपदं शतं कोपान्महात्मना ॥ १४॥ गौतमस्य नरश्रेष्ट पूर्वमासी न्महात्मनः । आश्रमो दिव्यसङ्काशः सुरैरपि सुपूजितः॥ १५॥ स चेह तप आतिष्ठदहल्यासहितः पुरा। वर्षपूगाननेकांश्च राजपुत्र महायशः ॥१६॥ तस्यान्तरं विदित्वा तु सहस्राक्षः शचीपतिः। मुनिवेषधरोहल्यामिदं वचनमब्रवीत् ॥१७॥ ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते। सङ्गमं त्वहमिच्छामि त्वया सह सुमध्यमे ॥१८॥ मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन । मतिं चकार दुर्मेधा देवराजकुतूहलात् ॥ १९॥ अथाब्रवीत्सुरश्रेष्ठं कृतार्थेनान्तरात्मना। कृतार्थास्मि सुरश्रेष्ठ गच्छ शीघ्रमितः प्रभो ॥२०॥ आत्मानं मां च देवेश सर्वदा रक्ष मानद । इन्द्रस्तु प्रहसन वाक्यमहल्यामिदमब्रवीत् ॥ २१ ॥ सुश्रोणि परितुष्टोऽस्मि गमिष्यामि यथागतम् ॥ २२ ॥ एवं सङ्गम्य तु तया निश्चक्रामोटजात्ततः। स सम्भ्रमात्त्वरन राम शडितो गौतमं प्रति ॥ २३ ॥ कालम् । अर्थिनः कामाद्भोगार्थिनः । अनृतुकालत्वान्नायमवसर इत्यहल्यया प्रतिषिद्धमित्यवगम्यते । सुसमाहिते सम्यक् ब्रह्मणा निर्मिते ! अतिसुन्दरी त्यर्थः ॥ १८॥ मुनीति । सहस्राक्षं विज्ञाय कदाचिदपि मुनिनेवमर्थनाभावादन्यस्यात्र प्रवेष्टुमशक्तेरिन्द्रस्यैवात्मनि बहुकालमभिलापश्रवणाच्चतिभावः) M॥ १९॥ अथति । कृतार्थेन सन्तुष्टेनेत्यर्थः । अन्तरात्मना मनसा उपलक्षिता ॥२०॥ आत्मानमिति । रक्ष अप्रकाशगमनादितिभावः ॥२१॥ सुश्रोणी त्यर्द्धम् ।। २२॥ एवमिति । सः इन्द्रः सम्भ्रमात् भयात् “सम्भ्रमो ह्यादरे भये" इतिनिघण्टुः । शङ्कितः शङ्कावान् ॥२३॥ हन्तेति-हर्षे ॥ १४ ॥ १५ ॥ सचेति । वर्षपूगान संवत्सरगणान् ॥ १६ ॥ तस्येति । अन्तरम् अवकाशम् ॥१७॥ ऋतुकालमिति । अर्थिनः सुतार्थिनः । सुसमाहित For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy