________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
टी.वा.का.
चा.रा.भू.
॥१४४॥
A
A
..
खनादिकमुक्तम् । इदानी तान्येवायुधतयोच्यन्ते । यद्वा पूर्वोक्तानां वरायुधत्वमुच्यते । वीरौ वीर्ययुक्तौ । पूर्व वीरशन्दोऽन्यथा व्याख्यातः । श्रोतु मिछामि तत्त्वतः, यद्यपि राजपुत्रौ कस्यचिदिनस्य शान्तये आगताविति सामान्यतो जानामि तथापि विशेषतो ज्ञातुमिच्छामीत्यर्थः ॥२-६॥ किमर्थं च नरश्रेष्ठौ सम्प्राप्तौ दुर्गमे पथि । वरायुधधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः ॥६॥ तस्य तद्वचनं श्रुत्वा यथावृत्तं न्यवेदयत् । सिद्धाश्रमनिवासं च राक्षसानां वधं तथा ॥ ७॥ विश्वामित्रवचः श्रुत्वा राजा परमहर्षितः। अतिथी परमौ प्राप्तौ पुत्रौ दशरथस्य तौ । पूजयामास विधिवत् सत्कारार्हो महाबलौ ॥ ८॥ ततः परमसत्कार सुमतेः प्राप्य राघवी । उष्य तत्र निशामेका जग्मतुर्मिथिलां ततः ॥ ९॥ तान दृष्ट्वा मुनयः सर्वे जनकस्य पुरी शुभाम् । साधु साध्विति शंसन्तो मिथिलां समपूजयन् ॥१०॥ मिथिलोपवने तत्र आश्रमं दृश्य राघवः । पुराणं निर्जन रम्यं पप्रच्छ मुनिपुङ्गवम् ॥ ११॥ श्रीमदाश्रमसङ्काशं किं न्विदं मुनिवर्जितम् । श्रोतुमिच्छामि भगवन
कस्यायं पूर्व आश्रमः ॥१२॥ तस्येति । स्वस्य सिद्धाश्रमनिवासं तत्र स्वयज्ञविनकरराक्षसानामेताभ्यां वधम् चकारादिमौ दशरथकुमारौ हरधनुर्दर्शनाय मिथिलां गच्छत इत्येतत्समु| चीयते । एतत्सर्वे यथावृत्तमब्रवीदिति योजना ॥७॥ विश्वामित्रति साईश्चोकः॥ ८॥ तत इति । उष्य उषित्वा । ततः प्रातःकाले । मिथिलां प्रति इतिशेषः॥ ९॥ तानिति । तान् मिथिलां प्रति प्रस्थितान् रामादीन् । पूजाप्रकारः साधु साध्विति ॥१०॥ मिथिलेति । मिथिलाया उप समाप वर्तमानं वनं मिथिलोपवनं तस्मिन् । शून्यम् उटजसंस्थानरहितम्। दृश्य दृष्ट्वा ॥ ११॥श्रीमदिति । आश्रमसङ्काशम् आश्रमवद्भासमानम् । किन्विद । स्वेच्छया देवलोकात्समाप्तो भुवमवतीणी । अमराविध स्थिती चन्द्रसूर्यावम्बरमाकाशमिष इमं देशं भूषयन्तो । किव प्रमाणङ्गितचेष्टितः प्रमाणं शरीर स्योन्नत्यम्, इङ्गितं गाम्भीर्य ,चेष्टितं हर्षामर्षयोरपि निर्विकारत्वम् तैः । परस्परस्य सहशो अन्योन्यसहशो, न त्वन्योन्ययोस्सदृशोऽस्तीतिभावः । किमर्थं कस्मै । प्रयोजनाय । कस्य वा पुत्राविति शेषः । आदरादाश्चर्याश्च पुनः पुनः पृच्छति-किमर्थमिति । दुर्गमे पपि कान्तार इत्यर्थः ॥२-६॥ तस्येति । यथावृत्तं न्यवेदयदि । त्यनेन दशरथतनयाविमाविति कधितवानित्यवगम्यते । राक्षसानां च तद्धं स चासो वधश्चेति तद्वधा, तं लोकप्रसिद्धं वधमित्यर्थः ॥७॥ ८॥ तत इति । सुमते| रिति पञ्चमी ॥ ९॥१०॥ मिथिलेति । दृश्य दृष्टा ॥११॥ श्रीमदिति । आश्रमसङ्काशम् आश्रमबद्भासमानम् तथापि मुनिजनवर्जितम् इदं किन्वित्याश्चर्यम्।।१२॥१३॥
मा.॥१४॥
For Private And Personal Use Only