________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मध्याह्नशयनपरिग्रहप्रसङ्गाभावेनासन एवोपविशन्त्यास्तस्या निद्रापारवश्येन ननं शिरः पादयोः संसक्तमभवदित्यर्थः ॥ १६॥ दृष्ट्वेति । पादतः कृत। मृर्द्धा पादौ कृत्वाथ शीर्षत इत्यस्य विवरणम्, अत एव अशुचिं तां दृष्ट्वा शिरःस्थाने कृतौ पादौ शिरःस्पृष्टौ पादाविति मुमोद, तेन जहास च । यद्वा प्राप्ते मध्यं दिवाकर इत्यनेन दिवास्वापरूपाशौचं दर्शितम् । शीर्षतः शिरःस्थाने, शिरःस्थान इत्यनुवादात्। पादतः पादस्थाने। शयनपरि
दृष्ट्वा तामशुचिं शकः पादतः कृतमूर्द्धजाम् । शिरःस्थाने कृतौ पादौ जहास च मुमोद च ॥ १७॥ तस्याः शरीरविवरं विवेश च पुरन्दरः। गर्भ च सप्तधा राम विभेद परमात्मवान् ॥ ८॥ भिद्यमानस्ततो गर्भो वजेण शतपर्वणा ।सरोद सुस्वरं राम ततो दितिरबुध्यत ॥ १९॥ मा रुदो मारुदश्चेति गर्भ शकोऽभ्यभाषत । विभेद च महातेजा रुदन्तमपि वासवः ॥ २० ॥ न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत् । निष्पपात ततः शक्रो मातुर्वचनगौरवात् ॥ २१ ॥ प्राञ्जलिर्वचसहितो दितिं शक्रोऽभ्यभाषत । अशुचिर्देवि सुप्तासि पादयोः कृतमूर्द्धजा ॥२२॥ ग्रहाभावेऽपि कृष्णाजिनाद्यास्तरणे पादस्थाने शिरः शिरःस्थाने च पादौ कृत्वा सुप्तवतीत्यर्थः । पादोपधाने शीर्ष शीर्षोपधाने पादौ च कृत्वेत्यर्थः ।। शास्त्रान्वेषणफलं जातमिति मोदः, वृथागर्वितेयमिति हासः॥ १७॥ तस्या इति । शरीरविवरं योनिविवरम् । आत्मवान धैर्यवान् ॥ ३८॥ भिद्यमान
इति । शतपर्वणा शतकोटिना ॥ १९॥ मा रुद इति । “रुदिर अश्रुविमोचने" इत्यस्माल्लुङ् । माझ्योगादडभावः ॥२०॥ न हन्तव्य इति । न दिवाकरे मध्यं प्राप्ते सति । शीर्षतः शय्यायां शीर्षस्थाने पादौ कृत्वा निद्रयापहृता निद्रया गृहीतेत्यर्थः । ( अनेन दिवास्वापरूपपापेन शय्यापादस्थाने मस्तककरणेन चाशुचित्वं सचितम् । केचित्तु उपविष्टाया पव प्रहतया पादपर्यन्तं शिरस्सम्बन्धेन शीर्षे पादसम्बन्धः । तेन ब्राह्मणस्य शुद्रस्पर्श इव शिरस पादस्पर्शेऽशुचित्वं सूचितम्। तपसि स्थितायाश्शय्यासम्बन्धाभावेन पूर्वव्याख्याया अयुक्तत्वादित्याहुः। परे तु भूशयनेऽपि दक्षिणपूर्वदिशोः शिरस्थापनयोग्यतायाः || स्मृतिपूक्तेः तद्वैपरीत्येन शयनस्याशुचित्वसूचकत्वमस्यैवेत्याहुः) ॥१६॥ दृष्ट्वेति । शिरःस्थाने कृतौ पादौ, पादतः पादस्थाने कृतमूर्द्धजो अत एवाशुचिं तां दृष्ट्वा
For Private And Personal Use Only