________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू.
॥ १४१ ॥
www.kobatirth.org
IVI
पुत्रोत्पत्तीति शेषः ॥ ५ ॥ पूर्ण इति । मत्तः मदनुग्रहादित्यर्थः ॥ ६ ॥ एवमिति । ममार्जेत्याश्वासनप्रकारः । ततः मार्जनानन्तरम् । उदरं समालभ्य स्वस्ति पुत्रोत्पत्तिरूपं शुभं भवत्वित्युक्त्वानुगृह्य स काश्यपस्तपसे ययौ ॥ ७ ॥ गत इति । कुशप्लवनं विशालायाः पूर्वस्थानम् ॥ ८ ॥ तप इति । गुणसम्पदा विनयादिसमृद्धया ॥ ९ ॥ अग्निमिति । परिचर्याप्रकारः ॥ १० ॥ गात्रेति । मातृत्वात् गात्रसंवहनानि, श्रमापनयनैः व्यजनवीजनादिभि एवमुक्त्वा महातेजाः पाणिना स ममार्ज ताम् । समालभ्य ततः स्वस्तीत्युक्त्वा स तपसे ययौ ॥ ७ ॥ गते तस्मि न्नरश्रेष्ठ दितिः परमहर्षिता । कुशप्लवनमासाद्य तपस्तेपे सुदारुणम् ॥ ८ ॥ तपस्तस्यां हि कुर्वन्त्यां परिचय चकार हूँ । सहस्राक्षो नरश्रेष्ठ परया गुणसम्पदा ॥ ९ ॥ अग्निं कुशान काष्ठमपः फलं मूलं तथैव च । न्यवेदयत् सहस्राक्षो यच्चान्यदपि कांक्षितम् ॥ १० ॥ गात्रसंवहनैश्चैव श्रमापनयनैस्तथा । शक्रः सर्वेषु कालेषु दितिं परि चचार ह ॥ ११ ॥ अथ वर्षसहस्त्रे तु दशोने रघुनन्दन । दितिः परमसम्प्रीता सहस्राक्षमथाब्रवीत् ॥ १२ ॥ याचि तेन सुरश्रेष्ठ पित्रा तव महात्मना । वरो वर्षसहस्रान्ते मम दत्तः सुतं प्रति ॥ १२ ॥ तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर । अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः ॥ १४ ॥ तमहं त्वत्कृते पुत्रं समाधास्ये जयोत्सुकम् | त्रैलोक्यविजयं पुत्रं सह भोक्ष्यसि विज्वरः ॥ १५ ॥ एवमुक्त्वा दितिः शक्रं प्राप्ते मध्यं दिवाकरे । निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः ॥ १६ ॥
रिति शेषः ॥ ११ ॥ अथेति । दशोने दशवर्षोने ॥ १२ ॥ याचितेनेति । शुश्रूषाकृतप्रीत्यतिशयाद्वैरं विस्मृतवतीति भावः ॥ १३ ॥ तप इति । ततः दशवर्षान्ते ॥ १४ ॥ तमिति । समाधास्ये विगतवैरं भ्रातृस्नेहवन्तमेव करिष्यामीत्यर्थः । त्रैलोक्यविजयं त्वद्धातृकृत मितिशेषः । अमोघभनुग्रहेणा प्रतिबन्धसुतोत्पत्तिं मन्वाना ऋजुतया शुश्रूषाफलमुक्तवती ॥ १५ ॥ एवमिति । मध्यं गगनमध्यम् । शीर्षतः शिरसि पादौ कृत्वा, स्थितेतिशेषः । एवमुक्त्वेति । पाणिना समालभ्य स्पृष्ट्वा । ममार्ज आश्वासयामास ॥ ७॥ गत इति । कुशप्लवनं विशालायाः पूर्वस्थानं तपोवनम् ॥८॥ तप इति । गुणसम्पदा शुश्रूषो |पयोगिगुणसमृद्धया ॥ ९ ॥ १० ॥ गात्रेति । सर्वेषु कालेषु परिचचार, तस्या अशुचित्वप्रतीक्षयेति भावः ॥ ११ ॥ अथेति । दशोने दशवर्षांने ॥ १२-१५ ॥ एवमिति । । ।।
।। १४१ ।।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
टी.बा.का.
स० ४६