________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अदितिरिति । दितेः पुत्रान्, अवशिष्टानितिशेषः। यद्वा अदितेरात्मजा आप्यायितबलाः सन्तः तस्मिन् देतेयादित्ययोर्देवासुरयोयुद्धे असुरान्निजमिरे ॥३१॥ निदत्येति । चकारादमृतमपीत्यर्थः ॥ ३२ ॥ अस्मिन्समें द्वात्रिंशत् श्लोकाः । अन्ये कल्पिताः। यद्यप्यत्र कालकूटायुत्पत्तिरपेक्षिता तथाप्यु त्तरकथाशेषत्वेन सर्वासुरक्षय एव प्रधानतयोपात्त इति बोध्यम् ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमीराख्याने बालकाण्ड।
अदितेरात्मजा वीरा दितेः पुत्रान्निजनिरे । तस्मिन युद्धे महाघोरे दैतेयादित्ययोभृशम् ॥३१॥ निहत्य दिति पुत्रांश्च राज्यं प्राप्य पुरन्दरः। शशास मुदितो लोकान् सर्षिसङ्घान् सचारणान् ॥ ३२॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चचत्वारिंशः सर्गः ॥४५॥ हतेषु तेषु पुत्रेषु दितिः परमदुःखिता। मारीचं काश्यपं राम भर्तारमिदमब्रवीत् ॥ १॥ हतपुत्रास्मि भगवंस्तव पुत्रैमहावलैः । शक्रहन्तारमिच्छामि पुत्र दीर्व तपोर्जितम् ॥२॥साहं तपश्चरिष्यामि गर्भ मे दातुमर्हसि । ईश्वरं शक्रहन्तारं त्वमनुज्ञातुमर्हसि ॥३॥ तस्यास्त द्वचनं श्रुत्वा मारीचः काश्यपस्तदा। प्रत्युवाच महातेजा दितिं परमदुःखिताम् ॥ ४॥ एवं भवतु भद्रं ते शुचि भव तपोधने । जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे ॥ ५॥ पूर्णे वर्षसहस्रे तु शुचियदि भविष्यसि । पुत्रं
त्रैलोक्यभर्तारं मत्तस्त्वं जनयिष्यसि ॥६॥ व्याख्याने पञ्चचत्वारिंशः सर्गः॥ ४५ ॥ विष्णुपक्षविरोधे महानपि यत्नो विफलः स्यादित्याह पदचत्वारिंशे-हतेष्वित्यादि । मारीचं मरीचिपुत्रम् ॥१॥ तेति । तपोर्जितं तपसा ऊर्जितं दृढम् । आपः सन्धिः॥२॥ साहमिति । गर्भ पुत्रम् । ईश्वरं त्रैलोक्यनियन्तारम् । ईदृशमितिपाठेऽप्ययमों विवक्षितः। अनुज्ञातुं, तप इति शेषः । भत्रनुज्ञां विना तपसि स्त्रिया अस्वातन्त्र्यादितिभावः ॥३॥ तस्या इति ॥ ४॥ एवमिति । शुचिर्भव, यावत् अदितेरिति । देतेयादित्ययोः असुरसुरवर्गयोः ॥३१॥ ३२ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायो पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥ हतेष्विति । मारीचं मरीचिब्रह्मपुत्रम् ॥ १-६॥
१ मर्हसि । बलवन्तं महेप्वास स्थितिनं समदर्शिनम् । ईश्वरं । इतिपाठान्तरम् ।
For Private And Personal Use Only