________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
भद्रं तेस्त्विति वचनपरिपाटी । सन्ध्याकालोऽतिवर्तते, इतः परं न प्रष्टव्यमितिभावः ॥२०॥ अथ गङ्गावतारश्रावणफलमाइ-धन्यमिति । धनादि प्रदमित्यर्थः । सर्वत्र साधुत्वार्थे यत्प्रत्ययः । इदमाख्यानमित्यनुषज्यते । अर्धत्रयम् ॥२१॥ श्रावयितुः फलमुक्तम्, सम्प्रति श्रीतुः फलमुच्यते इदमिति । गङ्गावतरणं गङ्गावतरणाख्यम् । अर्द्धत्रयम् ॥२२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ॥४४॥ एवं दशभिः सर्गेगङ्गागाङ्गेयसम्भववर्णनव्याजेन धातुमोक्षणगङ्गापूतत्वनिमित्तकं देवतान्तरावरत्वं दर्शितम् । अथ
धन्यं यशस्यमायप्यं पुत्र्यं स्वय॑मतीव च । यः श्रावयति विप्रेषु क्षत्रियेवितरेषु च। प्रीयन्ते पितरम्तस्य प्रीयन्ते दैवतानि च ॥ २१ ॥ इदमाख्यानमव्यग्रो गङ्गावतरणं शुभम् । यः शृणोति च काकुत्स्थ सर्वान् कामानवाप्न यात् । सर्वे पापाःप्रणश्यन्ति आयुः कीर्तिश्च वद्धते ॥२२॥ इत्यारे श्री बालकाण्डे चतुश्चत्वारिंशः सर्गः॥४४॥ विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः । विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत् ॥ ॥ अत्यद्भुतमिदं ब्रह्मन् कथितं परमं त्वया । गङ्गावतरणं पुण्यं सागरस्यापि पूरणम् ॥२॥ क्षणभृतेव नौ रात्रिः संवृत्तेयं महा तपः । इमां चिन्तयतस्सर्वा निखिलेन कथा तव ॥ ३॥ तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा। जगाम चिन्तयानस्य विश्वामित्रकथा शुभाम् ॥ ४॥ ततः प्रभाते विमले विश्वामित्रं महामुनिम् । उवाच राघवो वाक्यं
कृताहिकमरिन्दमः ॥५॥गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम् ॥६॥ त्रिभिः सर्गः महेन्द्रस्यावरत्वमुपपाद्यते-विश्वामित्रेत्यादि ॥ १॥ अत्यद्भुतमिति । पूरणं खननेनाभिवर्द्धनम् ॥२॥ क्षणभूतेव नौ रात्रिरिति शोकोल गता भगवतीत्यर्धात्परमनुसन्धेयः ॥३॥ तस्येति । क्षणभूतेव जगामेत्यर्थः॥ ४॥ तत इति । विमले प्रभाते सम्यकप्रभात इत्यर्थः ॥५॥ गतेन्यद त्रयम् । भगवती सत्कथायुक्तत्वात पूज्या ॥६॥ एतदाख्यानावपितुः फलमाह-धन्यमिति ॥ २१॥ अयश्रोतः फलमुच्यत-पदमिति । अव्यप्रः सावधानमनाः ॥२॥ इति श्रीमहे श्रीगमायण चालकाण्ड व्याख्यायां चतुश्चत्वारिंशः सर्गः ॥४४॥ विश्वामित्यादि । परणं गङ्गयेति शेषः॥१-५॥ गतेति । भगवनी रात्रिः गडावनाणानुचिन्तनादिति भावः ॥6॥
For Private And Personal Use Only