________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
भा.रा.भू. ११३८॥
राजविणेति लोकदयम् । गङ्गा प्रार्थयतापि सा पुननेतुं न शहिता, न विचारितेत्यर्थः॥१०॥११॥ सेति । समतिकान्ता निस्तीर्णा ॥१२॥ यञ्चेति । आयतनं प्रतिष्टाम्।।१३॥ प्लवियस्वेति । पावयस्व स्रान कुर्वित्यर्थः । सदोचिते सदा खानयोग्ये । अन्यासामेव हि नदीनां रजोदोष इति भावः॥१४॥पिता स०४४
राजषिणा गुणवता महासयतेजसा । मत्तल्यतपसा चैव क्षत्रधर्मस्थितेन च ॥१०॥ दिलीपेन महाभाग तव पित्रातितेजसा। पुनर्न शङ्किता नेतुंगङ्गां प्रार्थयतानध ॥११॥सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ । प्राप्तो ऽसि परमं लोके यशः परमसम्मतम् ॥ १२॥ यच्च गङ्गावतरणं त्वया कृतमरिन्दम । अनेन च भवान प्राप्ती धमेस्यायतनं महत् ॥ १३॥ प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते । सलिले पुरुषव्याघ्र शुचिः पुण्यफलों भव ॥१४॥ पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् । स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप ॥१५॥ इत्येवमुक्का देवेशः सर्वलोकपितामहः । यथागतं तथागच्छद्देवलोक महायशाः ॥ १६॥ भगीरथाऽपि राजषिः कृत्वा सलिलमुत्तमम् । यथाक्रमं यथान्यायं सागराणां महायशाः॥१७॥ कृतोदकः शुची राजा स्वपुरं प्रविवेश ह। समृद्धाों नरश्रेष्ठ स्वराज्यं प्रशशास ह॥१८॥ प्रमुमोद च लोकस्तं नृपमासाद्य राघव । नष्टशोकः समृद्धार्थी वभूव विगतज्वरः ॥१९॥ एष ते राम गङ्गाया विस्तरोऽभिहितो मया । स्वस्ति प्राप्तहि भद्रं ते सन्ध्याकालोऽतिवर्तते॥२०॥ महानामिति । गम्यतां त्वयापीतिशेषः॥ १५॥ इतीति । यथागतं तथागच्छत एक एवेत्यर्थः ॥ १६॥ भगीरथ इति श्लोकद्वयम् । यथाक्रमं कृत। दकः, अन्येषामपातिशपः । प्रशशासह प्रशशास चेत्यर्थः ॥ १७॥ १८॥ प्रमुमोदेति । विगतज्वरः निरामय इत्यर्थः ॥ १९॥ उपसंहरति-एप इति । |दिलीपेनेति । गङ्गामानेतुं न शहिता न विचारिता। प्रतिजेतिशेषः । चिन्ताविषयमपि न प्रापितेत्पर्यः॥ ११॥ सेति । सागरादिभिर्दुस्तरा प्रतिजा समतिक्रान्ता| |निस्तीर्णा ॥१२॥ यच्च गनेति । आयतनम् आयतनसमम् । यद्वा धर्मस्यायतनं धर्मप्राप्यस्थानम् । महत ब्रह्मलोकरूपम् ॥ १३॥ यथास्या ब्रह्मलोकमापकत्वं तदाह-IN प्रावयस्वेति । आत्मानं स्वदेहम् । सदोचिते सिंहकर्कटमध्येऽपि स्नानादिव्यवहारोचिते, भूप्रवहनदीनामेष तत्काले भौमत्वमुलरजासम्बन्धात म्नानाधनहत्वमा अनेन स्नानमात्रेण गङ्गा ब्रह्मलोकप्राप्तिकरीति सचितम् ॥१४-१७॥ कृतोदक इति । अन्येषामपीति शेषः । सागराणां कृत्वा सलिलमिति पूर्वमुक्तत्वात ॥१८॥१९॥ उपसंहरति एष इति । स्वस्तिभद्रयोHहणं तत्पीत्यादरसूचनार्थम् ॥ २०॥
For Private And Personal Use Only