________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चा.ग.भू.
॥१३७॥
भगीरथ इति । स्पष्टम् ॥३१॥ देवा इति शोकद्वयम् । भगीरथरथानुगां गङ्गामन्वगमन् ॥ ३२ ॥ ३३ ॥ यत इति । यतः यत्र । ततः जाटा तत्र ॥३४॥ ततो हीति । अद्भुतकर्मण इति वक्ष्यमाणगङ्गापानाभिप्रायम् । यज्ञवाट यज्ञक्षेत्रम् ॥ ३५ ॥ तस्या इति । वलेपनं गर्वम् । परमास० ४
भगीरथोऽपि राजर्षिदिव्यं स्यन्दनमास्थितः । प्रायादरे महातेजास्तं गङ्गा पृष्टतोऽन्वगात् ॥३१॥ देवाः सर्षि गणाः सर्वे दैत्यदानवराक्षसाः। गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥ ३२ ॥ सर्वाश्चाप्सरसो राम भगीरथरथानु गाम् । गङ्गामन्वगमन् प्रीताः सर्वे जलचराश्च ये॥ ३३॥ यतो भगीरथो राजा ततो गङ्गा यशस्विनी । जगाम सरिता श्रेष्ठा सर्वपापविनाशिनी ॥ ३४॥ ततो हि यजमानस्य जोरद्भुतकर्मणः । गङ्गा संप्लावयामास यज्ञवाट महात्मनः ॥ ३५ ॥ तस्या वलेपनं ज्ञात्वा क्रुद्धो जह्वश्च राघव । अपिबच्च जलं सर्व गङ्गायाः परमाद्भुतम् ॥३६॥ ततो देवाः सगन्धर्वा ऋषयश्च सुविस्मिताः। पूजयन्ति महात्मानं जहुं पुरुषसत्तमम् । गङ्गां चापि नयन्ति स्म दुहितृत्वे महात्मनः ॥ ३७॥ ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् पुनः। तस्माजसुता गङ्गा प्रोच्यते जाह्न वीति च॥३८॥जगाम च पुनर्गङ्गा भगीरथरथानुगा।सागरं चापि सम्प्राप्ता सासरित्प्रवरा तदा। रसातलमुपागच्छत् सिद्धयर्थ तस्य कर्मणः॥ ३९ ॥ भगीरथोऽपि राजर्षिर्गङ्गामादाय यत्नतः। पितामहान् भस्मकृतानपश्यद्दीनचेतनः ॥४०॥ अथ तदस्मनां राशिं गङ्गासलिलमुत्तमम् । प्लावयद्भूतपाप्मानः स्वर्ग प्राप्ता रघूत्तम ॥ ११ ॥
इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥ द्रुतमिति क्रियाविशेषणम् ॥ ३६ ॥ तत इति सार्द्ध श्लोकः । दुहितृत्वे नयन्ति स्म, दुहितरमकुर्वन्नित्यर्थः ॥ ३७॥ तत इति । ततः दुहितृत्वप्राप
N ॥१३७॥ राणात् । श्रोत्राभ्याम्, नरावयवेषु श्रोत्रस्यातिपावनत्वादितिभावः ॥ ३८ ॥ जगामत्यद्धत्रयम् । तस्य कर्मणः भगीरथयवस्य ॥ ३९ ॥ भगीरय इति ।। शतस्या इति । परमाअतं यया भवति तथा ॥ ३६॥ तत इति । जई पूजयन्ति स्तुवन्ति स्म । दुहितत्वे नयन्ति दुहितृत्वमनयन्निति यावत् ॥ ३७॥ तत इति।
For Private And Personal Use Only