________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पाषाणस्खलनादिना ऊर्ध्वमुखम् । सर्वत्र व्यत्ययेन भूते लद ॥ २४ ॥ सलिलेनेति । अभ्याइतं वातव्यावर्तितम्, तरङ्गसलिलेनाभिमुखमाइतमित्यर्थः।।
॥२५॥ तदिति । शङ्करशिरसि भ्रष्टं पतितमपि ततःभूमितले पतितमपि निर्मलम्, मतं कल्मषं येन तद्गतकल्मषम्, पापापहमित्यर्थः॥२६॥ तत्रेति। पापवित्रं पावनम्, तत्र ज्ञापकहेतुमाइ भवाङ्गपतितमिति । भवेन रुद्रेण शिरसा धृतत्वात पवित्रमिति ज्ञात्वा पस्पृशुरित्यर्थः। पवित्रमिति सामान्यात्या
भवस्यान्येषां च पवित्रमित्युक्तम्, अतएव " हरस्य गात्रसंस्पर्शात् पवित्रत्वमुपागता" इत्यत्रापि हरस्य शुद्धिप्रदत्वमुपागतेत्यर्थः।अन्येऽप्यषय ऊचुः श्रीमद्भागवते-“यच्छौचनिःसृतसरित्प्रवरोदकेन तीर्थन मूर्ध्नि विधृतन शिवः शिवोऽभूत" इति । भारते-" तदम्बु पतितं दृष्ट्वा दधार शिरसा हरः |
सलिलेनैव सलिलं क्वचिदभ्याइतं पुनः। मुहुरूर्द्धमुखं गत्वा पपात वसुधातलम् ॥ २५॥ तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुनः । व्यरोचत तदा तोयं निर्मलं गतकल्मषम् ॥ २६ ॥ तत्र देवर्षिगन्धर्वा वसुधातलवासिनः । भवाङ्ग पतितं तोयं पवित्रमिति पस्पृशुः ॥२७॥ शापात्प्रपतिताये च गगनाद्वसुधातलम् । कृत्वा तत्राभिषेकं ते बभूवुर्गत कल्मषाः ॥ २८॥धूतपापाः पुनस्तेन तोयनाथ सुभास्वता। पुनराकाशमाविश्य स्वान लोकान् प्रतिपेदिरे॥२९॥
मुमुदे मुदितो लोकस्तेन तोयेन भास्वता। कृताभिषेको गङ्गायां बभूव विगतक्मः ॥३०॥ पावनार्थ जटामध्ये योग्योऽस्मीत्यवधारणात् ॥” इति । अवाप्ययोध्याकाण्डे वक्ष्यति-"विष्णुपादोद्रवां दिव्याम्" इति। गङ्गाया विष्णुपादोद्भवत्वेन पवित्रत्वरूपं दिव्यत्वं भवाङ्गात्पतितमिति वार्थः। "द्वितीयाश्रितातीतपतित-" इति द्वितीयासमासविधानात् पञ्चमीसमासानुपपत्तेश्च भवेन धृतत्वात् । अस्माभिरपि पार्यमिति पस्पृशुरित्येवार्थः । यद्वा भवाङ्गपतितत्वात् पवित्रम् न तु पूर्ववदतिपवित्रम्, अतएव पस्पृशुः, न तु सस्नुः । यदा यद्यपि । भवाङ्गात् पतितं तथापि विष्णुपादोद्भूतत्वात्पवित्रमिति वा “नदी वेगेन शुद्धयति" इति न्यायात्। भवसम्पर्कविगमे पवित्रमिति वा पस्पृशुः॥२७॥ शापादिति । शापादेतोः ॥ २८॥ धूतेति । आकाशमाविश्य, आकाशमार्गेणेत्यर्थः ॥२९॥ मुमुद इति । मुदितः मुमुदे, पुनःपुनर्जहत्यर्थः ॥३०॥ तदिति । शङ्करशिरः शङ्करशिरसि, भ्रष्टं पतितम् । गतकल्मषं कल्मषापहम् ॥२६॥ तत्रेति । तोयं पस्पृशुः, सस्नुरित्यर्थः ॥२७॥ शापादिति । शापादेनोः गगनात स्वस्थानात् । गतकल्मषाः शापविमुक्ताः ॥ २८ ॥ २९॥ मुमुद इति । मुदितो मुमुदे, पुनःपुनर्जहत्यर्थः ॥ ३०-३५ ॥
For Private And Personal Use Only