________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
शाहमवती हिमवत्कन्या। शिवे शुद्धे । उतेति प्रसिद्धौ ॥४॥ महारूपदुःसहवेगकरणे निमित्तमाह-अचिन्तयदिति । दुर्द्धरा धर्तमशक्या । गृह्या
गृहीत्वा ॥५॥ तस्या इति । वलेपनं गर्वम् । वष्टि भायुरिः-" इत्यल्लोपः। तिरोभावयितुं तिरोहितां केतुम् ॥६॥ सेति । जटामण्डलमेव गह्वरं गुहा यस्मिस्तसथा ॥ ७॥ सेति । निर्गमनं जटामण्डलानिस्सरणमात्रमपि, जटामण्डले मोहिता सनातमोहा ॥८॥ तति । अवम्भ्रमत् पुनःपुनरभ्रमत् ।
अचिन्तयच्च सा देवी गङ्गा परमदुर्द्धरा । विशाम्यहं हि पातालं स्रोतसा गृह्य शङ्करम् ॥५॥ तस्या वलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः । तिरोभावयितुं बुद्धिं चक्रे त्रिणयनस्तदा ॥६॥ सा तस्मिन् पतिता पुण्या पुण्ये सदस्य मूर्द्धनि। हिमवत्प्रतिमेराम जटामण्डलगह्वरे ॥७॥ सा कथञ्चिन्महीं गन्तुं नाशनोद्यत्नमास्थिता । नैव निर्गमनं लेभे जटामण्डलमोहिता ॥८॥ तत्रैवावम्भ्रमद्देवी संवत्सरगणान बहून् । तामपश्यन् पुनस्तत्र तपः परम मास्थितः ॥९॥ अनेन तोषितश्चाभूदत्यर्थ रघुनन्दन । विससर्ज ततो गङ्गां हरो विन्दुसरःप्रति ॥ १०॥ तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे ॥11॥ हादिनी पावनी चैव नलिनी च तथाऽपरा । तिस्रः प्राची दिशं जग्मुर्गङ्गारिशवजलाश्शुभाः ॥ १२॥ सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी। तिस्रस्त्वेता दिशं जग्मुः प्रतीची तु शुभोदकाः॥ १३ ॥ सप्तमी चान्वगात्तासां भगीरथमथो नृपम् ॥ १४॥ भगीरथोऽपि राजर्षिदिव्यं स्यन्दन
मास्थितः । प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत् ॥ १५॥ यङलुगन्तालङ् । आस्थितः राजेति शेषः ॥९॥ अनेनेति । अनेन तपसा तोषितश्चासीत् विससर्ज च । बिन्दुसरोनाम हिमवति ब्रह्मनिर्मितस्सरोविशेषः
१०॥ तस्यामित्यर्द्धम् । स्रोतांसि प्रवाहाः॥११॥ स्रोतसां नामनिर्देशपूर्वकं गतिभेदमाह-हादिनीति । शुभाः शोभमानाः ॥१२॥ सुचक्षुरिति ।। महानदीति सर्वविशेषणम् । ॥ १३ ॥ सप्तमीत्यईम् । तासां मध्ये ॥ १४ ॥ भगीरथोऽपीति। स्यन्दनंरथम् । अनुव्रजत् अन्वव्रजत् । अब स्वर्गाकाश तस्या इति । तस्या वलेपनं गर्वम् ॥ ६ ॥ सेनि । जटामण्डलगह्वरे-जटामण्डलेन गहरे गम्भीरे । हिमवत-हिमबिन्दुवत पतिता ॥७॥८॥ तरेति । अचम्भमत्-पुनः
For Private And Personal Use Only