________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
॥१३५॥
स०४३
शुभहेतुम् । मधुराम् अर्थतो मनोज्ञाम् ॥२२॥ मनोरथ इति । मनोरथः, तावकः इति शेषः ॥ २३ ॥ इयमिति । इयं सन्निहिता । हेमवती हिमवत्सन्नि । हिता । धारयितुं शक्तः हरः तत्र धारणे नियुज्यता प्रार्थ्यताम् ॥ २४ ॥ गङ्गाया इति । धारयितुं, शक्तमिति शेषः ॥ २५ ॥ तमिति । आभाष्य वत्से ।
मनोरथो महानेष भगीरथ महारथ। एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्द्धन ॥२३॥ इयं हैमवती गङ्गा ज्येष्ठा हिमवतः सुता। तां वै धारयितुं शक्तो हरस्तत्र नियुज्यताम् ॥२४॥ गङ्गायाः पतनं राजन् पृथिवी न सहिष्यति। तां वै धारयितुं वीर नान्यं पश्यामि शूलिनः ॥ २५ ॥ तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत् । जगाम त्रिदिवं देवस्सह देवैर्मरुद्गणैः ॥२६॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विचत्वारिंशः सर्गः॥४२॥ देवदेवे गते तस्मिन सोऽङ्गुष्ठाग्रनिपीडिताम् । कृत्वा वसुमती राम संवत्सरमुपासत ॥ १॥ अथ संवत्सरे पूर्णे सर्व लोकनमस्कृतः । उमापतिः पशुपती राजानमिदमब्रवीत्॥२॥ प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम्। शिरसा धारयिष्यामि शैलराजसुतामहम् ॥ ३॥ ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता । तदा साऽतिमहदूपं कृत्वा
वेगं च दुस्सहम् । आकाशादपतंद्राम शिवे शिवशिरस्युत ॥४॥ राजानं यथाकालमनुगृहाण' इत्युक्त्वेति यावत् । मरुद्गणैः वायुगणैः॥२६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्ड व्याख्याने द्विचत्वारिंशः सर्गः ॥ ४२ ॥ अथ गङ्गाप्लवनेन सागराणां स्वर्गगतिस्त्रिचत्वारिशे-देवदेव इत्यादि । उपासत उपास्त । शिवमिति शेषः॥१॥ अथेति । उमापतिरित्यनेनोमया सहागत इत्युच्यते ॥२॥ प्रीत इति । प्रियं करिष्यामीत्येतद्विवृणोति-शिरसेति ॥ ३ ॥तत इति, अर्द्धत्रयमेकान्वयम् । कलं नावसीदेत एष वरः परो द्वितीयोऽस्त्वित्पन्वयः॥२१-२३ ॥ इयमिति । इयं हैमवती गङ्गा । कथमिति चेत, हिमवतः ज्येष्ठा सुता ॥ २४ ॥ गङ्गाया इति । पृथिवी तां धारयितुं न सहिष्यति । तत्र पृथिवीस्थाने हरो नियुज्यताम् प्राय॑ताम् ॥ २५ ॥ तमेवमिति । गङ्गामाभाष्य 'अस्य मनोरथं पूरय' इति गङ्गामाभाष्य गङ्गा प्रत्युक्त्वा । देवैः आजानजैः । मरुद्गणैः कर्मदेवैः ॥ २६ ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायर्या बालकाण्डव्याख्यायां द्विचत्वारिंशः
M सर्गः ॥ ४२ ॥ देवदेव इति । उपासत उपास्त । उमापतिमिति शेषः ॥ १-३॥ तदेति ईश्वरेण धारणाङ्गीकारे कृते, ग,दित्यर्थः । शिवे शोभने ॥ ४ ॥५॥ १ सत । ऊर्ववाहनिरालम्बो वायुभक्षो निराश्रयः । अचल: स्थाणुवस्थित्वा रात्रिंदिवमरिंदम ।। २ प्रियम् । तमनवानृपवरो गङ्गां भारय वे हर । इत्युक्तो वचनं भर्गः करिष्यामि प्रियं तव ।। इत्यधिकः ॥
॥१३५॥
For Private And Personal Use Only