________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
स इति । गोकर्णे हिमवत्पादविशेषे । पञ्चामयः चतुषु पार्श्वेष्वनय उपरि सूर्यश्च, तेषां मध्ये तपो यस्य सः पञ्चतपाः। मासस्य सकृदाहारो यस्य । सामासाहारः। उभयत्र मध्यमपदलोपी समासः। पृषोदरादित्वात्साधुत्वम् ॥ १३॥ तस्येति । तस्य राज्ञो महात्मन इत्युत्तरशेषः ॥ १४॥ सुप्रीत इत्यर्द्धम् ॥१५॥ तत इति । अथ उपगमनानन्तरम् ॥१६॥ भगीरथेति । ते तपसा प्रीतः॥१७॥ तमिति । महातेजाः तपःकृतनिरवधिकतेजाः ॥१८॥
स तपो दीर्घमातिष्टगोकर्णे रघुनन्दन । ऊर्यवाहुः पञ्चतपा मासाहारो जितेन्द्रियः ॥ १३ ॥ तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः । अतीतानि महाबाहो तस्य राज्ञो महात्मनः ॥१४॥ सुप्रीतो भगवान ब्रह्मा प्रजानां पति रीश्वरः ॥ १५॥ ततः सुरगुणेः साद्धमुपागम्य पितामहः।भगीरथं महात्मानं तप्यमानमथाब्रवीत् ॥१६॥ भगीरथ महाभाग प्रीततेऽहं जनेश्वर । तपसा व सुतप्तेन वरं वस्य सुव्रत ॥७॥ तमुवाच महातेजाः सर्वलोकपितामहम् । भगीरथो महाभागः कृताञ्जलिरुपस्थितः ॥ १८॥यदि मे भगवन् प्रीतो यद्यस्ति तपसः फलम् । सगरस्यात्मजाः । सर्वे मत्तस्सलिलमाप्नुयुः ॥ १९॥ गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम् । स्वर्ग गच्छेयुरत्यन्तं सर्वे मे प्रपितामहाः ॥२०॥ देया च सन्ततिदेव नावसीदेत्कुलं च नः । इक्ष्वाकूणां कुले देव एष मेऽस्तु वरः परः ॥२१॥
उक्तवाक्य तु राजानं सर्वलोकांपतामहः। प्रत्युवाच शुभा वाणी मधुर मधुराक्षराम् ॥ २२ ॥ वीति । तपस इत्यन्वयः ॥१२॥ न केवलं सलिलाप्तिरन्यच्चेत्याह-गङ्गाया इति । अत्यन्तम् अक्षय्यम् ॥२०॥ दया चेति । इक्ष्वाकूणां कुले जातस्य । म सन्ततिदया.यया नः कुलं नापसीदेत् । एष वरः परः द्वितीयो वरोऽस्त्वित्यन्वयः। तपसे निर्गमदशायामपि हि प्रजाकाम इत्युक्तम्॥२३॥उक्तेति । शुभां । स इति । पञ्चतपाः पञ्चानामग्नीनां मध्ये तपो यस्य ।मामाहारः मासे गते आहारो यस्य सः ॥१३॥ तस्य राज्ञो महात्मन इत्यस्य सुप्रीत इत्युत्तरेण सम्बन्धः॥१४-१६॥ भगीरथेति । तपता पितामहोदारप्रकृत्त्या चेति चकारस्यार्थः ॥१७॥१८॥ यदि मे भगवन्नित्यादि। असन्दिग्धे सन्दिग्धवचनं 'वेदाश्चेत्प्रमाणम्' इतिवत । सलिलम्स्पर्शमात्रेण स्वर्गतिसाधनं सलिलम् ॥१९॥ गङ्गाया इति । स्वर्ग गच्छेयुरत्यन्तमिति। अत्यन्तमक्षय्यम्॥२०॥देयेति । इक्ष्वाकूणां कुले जातस्य मे सन्ततिर्देया, ययानः
For Private And Personal Use Only