________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandir
बा.रा.भू.
टी.बा.को.
॥१३४
लीपे रघुनन्दनाम वर्गलेभ कथं गङ्गावाटतात्मनः । राज्यमकारक गती र
म.४२
या बुद्धया ॥ तस्य
बहुभिरिष्टवादल कालयमा भगीरथस्तु
सुमहान् राजासीदित्यन्वयः ॥२॥ तस्मिन्निति । तेपे गङ्गावतारणायेतिशेषः ॥ ३॥ द्वात्रिंशदिति । स्वर्ग लेभे न तु गङ्गाम् ॥ ४ ॥ दिलीप इति । वधम् अपमृत्युम् । दुःखोपड़तया पित्रा दुश्वरे तपसि कृतेऽपि तेषां गति भूदित्येवंरूपया । नाध्यगच्छत् नाध्यगच्छत ॥५॥ निश्चयानधिगममेवाह
तस्मिन् राज्यं समावेश्य दिलीपे रघुनन्दन। हिमवच्छिखरे पुण्ये तपस्तेपे सुदारुणम् ॥३॥ द्वात्रिंशच्च सहस्राणि वर्षाणि सुमहायशाः । तपोवनं गतो राम स्वर्ग लेभे तपोधनः ॥ ४॥ दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम् । दुःखोपहतया बुद्धचा निश्चयं नाध्यगच्छत ॥ ५॥ कथं गङ्गावतरणं कथं तेषां जलक्रिया । तारयेयं कथं चैनानिति चिन्तापरोऽभवत् ॥६॥ तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः । पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः ॥७॥ दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान् । त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत् ॥८॥ अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति । व्याधिना नरशार्दूल कालधर्ममुपेयिवान् ॥ ९॥ इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा । राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः॥१०॥ भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन ।
अनपत्यो महातेजाः प्रजाकामः स चाप्रजः ॥ ११ ॥ मन्त्रिप्वाधाय तद्राज्यं गङ्गावतरणे रतः ॥ १२ ॥ कथमित्यादिना ॥ ६ ॥ तस्येति । धर्मेण प्रयोजकेन चिन्तयतः ॥७॥ दिलीप इति । अकारयत् अकरोत् ॥ ८॥ अगत्वेति । उपेयिवान् ययौ । ॥९॥ इन्द्रोति । अभिषिच्य इन्द्रलोकं गतः ॥ १० ॥ भगीरथ इति । अनपत्यः अतएव प्रजाकामोऽभूत् । स चाप्रज इत्युत्तरशेषः ॥१३॥१२॥ तस्मिन्निति । तपस्तेपे गङ्गाया भूलोकावतरणार्थमिति शेषः ॥ ३॥४॥ दिलीप इति । दुःखोपहतया बुद्धचा पित्रा दुश्चरे तपसि कृतेपि तेषां गति भदिति । नाध्यगच्छत नाध्यगच्छत् ॥५॥ निश्चयानधिगममेवाह-कथमित्यादिना ॥ ६॥ ७॥ दिलीपस्त्विति । अकारयत् कृतवान् ॥ ८॥ व्याधिना पितृणामुद्धरणा लामजन्यदुःखजेन । तदिलीपवंशजो रघुपुत्रो दिलीपः कालिदासोक्तोऽन्य पवेति बोध्यम् ॥९॥१०॥ स चामजइत्यस्य मन्त्रिप्वाधायेत्युत्तरेणान्वयः । प्रस्तावा द्वाज्यं च मन्विष्वाधाय गङ्गावतरणेच्छस्तप आतिष्ठत ॥ ११ ॥१२॥
॥११४
For Private And Personal Use Only