________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
www.kababirth.org
गच्छेति । संवर्तयितुं समापयितुम् ॥२१॥ सुपर्णेति । आयात् आगच्छत् ॥२२॥ तत इति। वृत्तं पितृवृत्तान्तं सुपर्णवचनं च यथा तथा न्यवेदयदित्य न्वयः ॥ २३ ॥ तच्छुत्वेति । यथाकल्प यथाक्रमम् ॥२४॥ स्वेति । निश्चयम् उपायम् ॥२५॥ अकृत्वति । महता कालेन दिवंगत इत्यन्वयः ॥२६॥ इतिश्रीगोविन्दराजविरचिते श्रीरामायणभूपणे मणिमनीराख्याने बालकाण्डव्याख्याने एकचत्वारिंशः सर्गः ॥ ११ ॥ अथ गङ्गायात्रिपथगमन
गच्छ चावं महाभाग तं गृह्य पुरुषर्षभ। यज्ञं पैतामहं वीर संवर्तयितुमईसि ॥२३॥ सुपर्णवचनं श्रुत्वा सोडशुमानति वीर्यवान् । त्वरितं हयमादाय पुनरायान्महायशाः ॥ २२॥ ततो राजानमासाद्य दीक्षितं रघुनन्दन । न्यवेदयद्यथा वृत्तं सुपर्णवचनं तथा ॥ २३ ॥ तच्छ्रुत्वा घोरसङ्काशं वाक्यमंशुमतो नृपः । यज्ञं निवर्तयामास यथाकल्पं यथा विधि ॥२४॥ स्वपुरं चागमच्छीमानिष्टयज्ञो महीपतिः । गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत ॥२५॥ अकृत्वा निश्चयं राजा कालेन महता महान् । त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः ॥ २६ ॥
इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकचत्वारिंशः सर्गः॥४१॥ कालधर्म गते राम सगरे प्रकृतीजनाः। राजानं रोचयामासुरंशुमन्तं सुधार्मिकम् ॥ १ ॥ स राजा सुमहानसी दंशुमान रघुनन्दन । तस्य पुत्रो महानासीदिलीप इति विश्रुतः॥२॥ हेतुप्रश्नस्य पूर्वप्रकृतस्य साक्षादुत्तरमाइ-कालधर्ममित्यादि । जातमात्रस्य कालेनावश्यंप्राप्तव्यो धर्मः कालधर्मः, मरणमिति यावत् । प्रकृतीजना 31 इत्यत्र दीर्घश्छान्दसः। अमात्यवर्गाः। "प्रकृतिः सहजे योनावमात्ये परमात्मनि" इति वैजयन्ती। रोचयामासुः न्यायप्राप्तत्वादेच्छन् ॥१॥ स इति । सः संवर्तयितुम् समापयितुम् ॥ २१ ॥ २२ ॥ तत. इति । वृत्तं पितृवृत्तान्तम् सुपर्णवचनं यथा तथा न्यवेदयत् ॥ २३-२५ ॥ अकृत्वेति । निश्चयमुपायम् ॥ २६ ॥ इति श्रीमहेश्वरतीर्थविरचिताय श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायाम् एकचत्वारिंशः सर्गः ॥ ४१ ॥ कालधर्ममिति । प्रकृतीजनाः अमात्याः। रोचयामासुः ऐच्छन् ॥ १॥२॥
For Private And Personal Use Only