________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.. ॥१३३ ।।
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
यज्ञीयमिति । शोकः विलापः ॥ १४ ॥ स इति । जलक्रिया तर्पणम् ॥ १५ ॥ विद्यायैति । वितार्य समन्तात्प्रसार्य । निपुणां दूरवीक्षणक्षमाम् । अनिलोपमम्, वेगेनेति शेषः ॥ १६ ॥ स चेति । लोकसम्मतः लोकहितः ॥ १७ ॥ कपिलेनेति । हि यस्मात् कपिलेन हताः लौकिकं लोकतः प्राप्तम्
यज्ञीयं च हयं तत्र चरन्तमविदूरतः । ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः ॥ १४॥ स तेषां राजपुत्राणां कर्तुकामो जलक्रियाम् । सलिलार्थी महातेजा न चापश्यज्जलाशयम् ॥ १५ ॥ विसार्य निपुणां दृष्टिं ततोऽपश्यत् खगाधिपम् । पितॄणां मातुलं राम सुपर्णमनिलोपमम् ॥ १६ ॥ स चैवमब्रवीद्वाक्यं वैनतेयो महाबलः । मा शुचः पुरुषव्याघ्र वधोऽयं लोकसम्मतः ॥१७॥ कपिलेनाप्रमेयेन दग्धा हीमे महाबलाः । सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम् ॥ १८ ॥ गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ । तस्यां कुरु महाबाहो पितॄणां तु जलक्रियाम् ॥ १९ ॥ भस्मराशीकृतानेतान् प्लावयेल्लोकपावनी । तया क्लिन्नामिदं भस्म गङ्गय लोककान्तया । षष्टिं पुत्रसहस्राणि स्वर्गलोकं नयिष्यति॥२०॥ सलिलं दातुं नाईसि । " चण्डालादुदकात्सर्पात् वैद्युताद्ब्राह्मणादपि । दंदिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम् । उदकं पिण्डदानं च एतेभ्यो यद्विधीयते । नोपतिष्ठति तत्सर्वमन्तरिक्षे विनश्यति ॥ " इति स्मृतेः । कपिलो ब्राह्मणः ॥ १८ ॥ गङ्गेति । गङ्गा अस्तीति शेषः ॥ १९ ॥ न केवलं तत्र जलक्रिया, तथा सेचनीयं चेत्याह- भस्मेति सार्द्ध श्लोकः । यदि प्लावयेत्सेचयेत् तदा तया क्किनं सिक्तं भस्म नयिष्यति नेष्यति ॥ २० ॥ शोकः विलापः ॥ १४ ॥ १५ ॥ विसार्येति । निपुणां विवेचनसमर्थाम् । पितॄणां मातुलम्, सुपर्णभगिनी सुमतिरिति प्रागुक्तत्वात् । अनिलोपमम् वेगेन वायूपमम् ॥ १६ ॥ लोकसंगतः लोकहितः । एतन्मूलकतया सर्वलोकहितकारिण्या गङ्गाया भूलोके अवतरणात् ॥ १७ ॥ हि यस्मात्कपिलेन दग्धाः यतश्च महाबलाः महाबलवत्त्वेन प्रायश्चित्तमर्यादातिक्रान्तपापवन्तः । अतो लौकिकं लोकतः प्राप्तं, सलिलं दातुं नार्हसि ॥ १८ ॥ १९ ॥ भस्मेति । क्त्रिं सिक्तम् । नयिष्यति नेष्यति अनेन सगरपुत्राणां मन्वाद्युक्तप्रायश्चित्ताविषयत्वं सूचितम् । तत्प्रायश्चित्तविषयाणामपि पापिनां पुद्गलस्य गङ्गाजलस्पर्शः सर्वपापप्रायश्चित्तमिति सूचितम् । अकृतप्राय श्चिसानामपि महापातकिनामर्ध्वदेहिककर्मायोग्यानां गङ्गाजलस्पृष्टपुद्गलानां विनापि प्रायश्चित्तान्तरं सकलोर्ध्वदेहिकक्रियायोग्यत्वं च सूचितम् ॥ २० ॥
१ गङ्गामानय भद्रं त देवलोकान्महीतलम् । क्रियतां यदि शक्तोऽसि गङ्गायास्तव तारणम इत्यधिकः पाठः ।
For Private And Personal Use Only
टी.बा.का
स० [४१
॥१३३॥