________________
Shri Mahavir Jain Aradhana Kendra
चा.रा. भ. ॥ १३२॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
14 टी.बा.कां. पदप्रयोगः ॥ २३ ॥ ते त्विति । महात्मानः महाकायाः । कपिलं कपिलावतारम् ॥ २४ ॥ इयं चेति । चरन्तं तृणानि भक्षयन्तम् ॥ २५ ॥ तमिति सार्द्ध श्लोकः । तं कपिलम् ॥ २६ ॥ अस्माकमिति । दुर्मेध इति सम्बोधनम् ॥ २७ ॥ श्रुत्वेति । स्पष्टम् ॥ २८ ॥ तत इति । अप्रमेयेन अप्र ४ स० ४१ मेयवैभवेन ॥ २९ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने चत्वारिंशः सर्गः ॥ ४० ॥
ते तु सर्वे महात्मानो भीमवेगा महाबलाः । ददृशुः कपिलं तत्र वासुदेवं सनातनम् ॥२४॥ इयं च तस्य देवस्य चरन्त मविदूरतः। प्रहर्षमतुलं प्राप्ताः सर्वे ते रघुनन्दन ॥ २५ ॥ ते तं हयहरं ज्ञात्वा क्रोधपर्याकुलेक्षणाः । खनित्रलाङ्गल धरा नानावृक्षशिलाधराः । अभ्यधावन्त संक्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन् ॥ २६ ॥ अस्माकं त्वं हि तुरगं यज्ञीयं हृतवानसि । दुर्मेधस्त्वं हि सम्प्राप्तान विद्धि नः सगरात्मजान् ॥ २७ ॥ श्रुत्वा तु वचनं तेषां कपिलो रघुनन्दन । रोषेण महताऽऽविष्ट हुंकारमकरोत्तदा ॥ २८ ॥ ततस्तेनाप्रमेयेन कपिलेन महात्मना । भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः ॥ २९ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चत्वारिंशः सर्गः ॥ ४० ॥ पुत्रश्चिरगतान् ज्ञात्वा सगरी रघुनन्दन । नप्तारमब्रवीद्राजा दीप्यमानं स्वतेजसा ॥ १ ॥ शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा । पितॄणां गतिमन्विच्छ येन चाश्वोऽपवाहितः ॥ २॥ अन्तभमानि सत्त्वानि वीर्यवन्ति महान्ति च । तेषां त्वं प्रतिघातार्थं सांसिं गृह्णीष्व कार्मुकम् ॥ ३ ॥
पुत्रानिति । नप्तारं पौत्रम् ॥१॥ शूर इति । पूर्वैः पितृभिः । पितॄणां कनिष्ठपितॄणाम् । गतिं मार्गम् । अन्विच्छ अन्वेषय | अश्वो येनापवाहितस्तस्य | च गति मन्विच्छ ॥ २ ॥ अन्तरिति । अन्तमानि भूमेरन्तर्जातानि । भूविलमाश्रितानीत्यर्थः । यानीति शेषः ॥ ३ ॥
त इति । कपिलम्-कपिलरूपधारिणम् ॥२४॥ तस्य कपिलस्य ॥ २५ ॥ ते तं यज्ञहनमिति । हन्तीति हनः पचाद्यच् । अविचारनः तमेव अश्वापहारद्वारा यज्ञहन्तारं | ज्ञात्वेत्यर्थः ॥ २६-२९॥ इति श्रीमहेश्वरतीर्थ० श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां चत्वारिंशः सर्गः ॥ ४० ॥ पुत्रानिति । नप्तारम्-पौत्रम् ||१|| शूर ॥ इति । गतिं मार्गम् । अन्विच्छ अन्वेषय । येन अश्वोऽपहारितः अपहृतः तस्य च गतिम् ॥२॥ अन्तरिति । अन्तर्भीमानि भूमेरन्तर्जातानि । सत्त्वानि प्राणिनः ॥३॥
For Private And Personal Use Only
॥ १३२॥