________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
शाख्यम् ॥१२॥ उक्तं विवृणोति-सेति ॥ १३॥ यदेति । पर्वणि काले। खेदादेतोः। विश्रमार्थ श्रमशान्त्यर्थम् । चालयते चालयति ॥ १४ ॥ तमिति ।। मानयन्तः पूजयन्तः॥ १५॥ तत इति । तत इत्यस्य विवरणं पूर्वी दिशं भित्त्वति ॥१६॥ महागज विशेषयति-महति । सुमहदित्यार्षम् ॥१७॥ तत शइति । दिशब्देन देश उच्यते ॥ १८॥ पश्चिमायामिति । सौमनसं सौमनसाख्यम् ॥ १९॥ तमिति । निरामयं कुशलम् । समुपक्रान्ताः गताः। हैम
सपर्वतवनां कृत्स्ना पृथिवीं रघुनन्दन । शिरसा धारयामास विरूपाक्षो महागजः ॥ १३॥ यदा पर्वणि काकुत्स्थ विश्रमार्थ महागजः। खेदाचालयते शीर्ष भूमिकम्पस्तदा भवेत् ॥१४॥ तं ते प्रदक्षिणं कृत्वा दिशापालं महागजम् । मानयन्तो हि ते राम जग्मुर्मित्वा रसातलम् ॥ १५॥ ततः पूर्वी दिशं भित्त्वा दक्षिणां विभिदुः पुनः । दक्षिणस्या मपि दिशि ददृशुस्ते महागजम् ॥ १६ ॥ महापद्मं महात्मानं सुमहत्पर्वतोपमम् । शिरसा धारयन्तं ते विस्मयं जग्मुरुत्तमम् ॥ १७॥ ततः प्रदक्षिणं कृत्वा सगरस्य महात्मनः । षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम् ॥१८॥ पश्चिमायामपि दिशि महान्तमचलोपमम् । दिशागजं सौमनसं ददृशुस्ते महाबलाः॥१९॥तं ते प्रदक्षिणं कृत्वा दृष्ट्वा चापि निरामयम् । खनन्तः समुपकान्ता दिर्श हैमवतींततः॥२०॥ उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डरम् ।भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम् ॥२१॥ समालभ्य ततःसर्वे कृत्वा चैनं प्रदक्षिणम् । षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधा
तलम् ॥२२॥ ततःप्रागुत्तरां गत्वा सागराःप्रथितां दिशम् ।रोषादभ्यखनन् सर्वेष्टथिवीं सगरात्मजाः ॥ २३॥ सावर्ती हिमवत्सम्बन्धिनीम् ॥२०॥ उत्तरस्यामिति । भद्रं भद्राख्यम् । भद्रेण शोभनेन ॥२१॥ समालभ्येति । समालभ्य स्पृष्ट्वा । “आलम्भः Mस्पर्शहिसयोः" इत्यमरः ॥२२॥ तत इति । प्रागुत्तराम् ऐशानी दिशम् । प्रथिताम् अश्वममनयोग्यतावतीम् । गमनखननकियाभेदासागरसगरात्मज लायदेति । यदा पर्वणि यस्मिन् काले भवेत् भवति । यद्वा पदापर्वणि यस्मिन् क्षणे । “तिथिभेदे क्षणे पर्व" इत्यमरः ॥ १४-१६ ॥ महापद्ममिनि । धाग्यन्तं
पृथिवीमितिशेषः ॥१७॥ प्रदक्षिणं कृत्वा दिग्गजमिति शेषः ॥ १८ ॥ १९॥ नमिति । निरामयं कुशलम् ॥ २०-२३॥
For Private And Personal Use Only