________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
वज्रस्पर्शसमैः वज्रस्पर्शसमरूप शैरित्यर्थः ॥ १८ ॥ शूलैरिति । अशनिकल्पैः वज्रतुल्यैः ॥ १९ ॥ नागानां सर्पाणाम् । असुरराक्षसाः पातालवा शिनः ॥ २० ॥ योजनानामिति । रसातलं पातालं यथा भवति तथा धरणीं बिभिदुः ॥२१॥ एवमिति । सम्बाधं निविडम् ॥ २२ ॥ तत इति । स्पष्टम् ॥ २३॥ त इति । प्रसाद्य स्तुत्वा ॥२४॥ भगवन्निति । तलवासिनः रसातलवासिनः || २५ || अयमिति । यज्ञहरः यज्ञहन्ता । यज्ञहन इतिपाठे-हन्तीति शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः । भिद्यमाना वसुमती ननाद रघुनन्दन ॥ १९ ॥ नागानां बध्यमानाना मसुराणां च राघव । राक्षसानां च दुर्द्धर्षः सत्त्वानां निनदोऽभवत् ॥ २०॥ योजनानां सहस्राणि षष्टिं तु रघुनन्दन । बिभिदुर्धरणीं वीरा रसातलमनुत्तमम् ॥ २१ ॥ एवं पर्वतसंबाधं जम्बूद्वीपं नृपात्मजाः । खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः॥ २२ ॥ ततो देवाः सगन्धर्वाः सासुरास्सहपन्नगाः । सम्भ्रान्तमनसः सर्वे पितामहमुपागमन् ॥ २३ ॥ ते प्रसाद्य महात्मानं विषण्णवदनास्तदा । ऊचुः परमसंत्रस्ताः पितामहमिदं वचः ॥ २४ ॥ भगवन् पृथिवी सर्वा खन्यते सगरात्मजैः । बहवश्च महात्मानो हन्यन्ते तलवासिनः ॥ २५ ॥ अयं यज्ञहरोऽस्माकम्पनेनाश्वोऽपनीयते । इति ते सर्वभूतानि निघ्नन्ति सगरात्मजाः ॥ २६ ॥ इत्यार्षे श्रीरामायणे बालकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ देवतानां वचः श्रुत्वा भगवान् वै पितामहः । प्रत्युवाच सुसन्त्रस्तान् कृतान्तबलमोहितान् ॥ १ ॥ यस्येयं वसुधा कृत्स्रा वासुदेवस्य धीमतः। कापिलं रूपमास्थाय धारयत्यनिशं धराम्। तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः॥ २ ॥ इनः । पचायच ॥ २६ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ देवतानामित्यादि । कृतः अन्तो जननाशो यैस्ते कृतान्ताः सगरपुत्राः ॥ १ ॥ यस्येति सार्द्ध श्लोकः । आस्थाय य इति शेषः ॥ २ ॥ नागानामिति । दुर्धर्षः दुर्भरः ॥ २०॥ योजनानामिति । रसातलं पातालं यथा भवति तथा।।२१-२५ ॥ अयमिति । हन्तीति हनः । यज्ञस्य हनः । हन्तेः पचाद्यच् ॥ २६ ॥ इति श्रीमहे० विरचितायां श्रीरामायण तत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायाम् एकोनचत्वारिंशः सर्गः ॥ ३९ ॥ देवतानामिनि । कृतान्नबलमोहिमान दैवबलमोहि तान ॥ १ ॥ यम्येयमित्यादि । यदधीना वसुधा । कापिलमिति, य इति शेषः । “ तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः " इनि नम्यैव स्वामित्वं
For Private And Personal Use Only