________________
Shri Mahavir Jain Aradhana Kendra
www.kcbabirth.org
Acharya Shri Kalassagarsun Gyanmandit
वा.रा.भ.
भेदात्, न तु गान्धार्या इव पश्चाद्विभजनीय इत्यर्थः ॥१७॥ घृतेति । घायः उपमातरः। तान विभक्ततुम्बान् ॥१८॥ अथेति । दीर्षण कालनेति टी.बा.कां. यौवनशालित्वे हेतुत्वात्तृतीया । यौवनशालिन इति पुंलिङ्गत्वमार्यम् ॥ १९॥ सचेति अर्द्धत्रयम् । ज्येष्ठः असमनः । प्रहसन्, स्थित इतिशेषः॥२०॥
स० ३९ एवमिति । निर्वासितः विवास्यते स्म ॥२१॥ तस्येति । अंशुमात्राम, आसीदितिशेषः ॥२२॥ तत इति । यजेयमिति निश्चिता मतिः। समभिजायत ।
घृतपूर्णेषु कुम्भेषु धान्यस्तान समवर्द्धयन्। कालेन महता सर्वे यौवनं प्रतिपेदिरे ॥ १८ ॥ अथ दीर्येण कालेन रूपयौवनशालिनः । षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा ॥१९॥ स च ज्येष्ठो नरश्रेष्ठस्सगरस्यात्मसम्भवः । बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन । प्रक्षिप्य प्रहसन्नित्यं मज्जतस्तान समीक्ष्य वै ॥२०॥ एवं पाप समाचारः सज्जनप्रतिबाधकः। पौराणामहिते युक्तः पुत्रो निर्वासितः पुरात् ॥ २१ ॥ तस्य पुत्रोऽशुमात्राम असमञ्जस्य वीर्यवान् । सम्मतः सर्वलोकस्य सर्वस्यापि प्रियंवदः ॥२२॥ ततः कालेन महता मतिः समभिजा यत । सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता ॥२३॥ स कृत्वा निश्चयं राम सोपाध्यायगणस्तदा। यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे ॥२४॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टात्रिंशः सर्गः ॥३८॥
विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दनः। उवाच परमप्रीतो मुनि दीप्तमिवानलम् ॥१॥ समभ्यजायत ॥ २३ ॥ स इति । यज्ञकर्मणि निश्चयं कृत्वा यष्टुं समुपचकमे ॥ २४ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने अष्टात्रिंशः सर्गः॥३८॥ अथ रामेण स्वपूर्वकवृत्तान्तप्रस्तावेन कुतूहलात्पृष्टे सति विश्वामित्रेण तदुत्तरकथनमेकोनचत्वारिंशे-विश्वास यत् ॥ १७ ॥ १८ ॥ अथेति । दीर्घेण यौवनशालित्वहेतुत्वात्तृतीया ॥ १९ ॥ स चेत्यादि । प्रहसन स्थित इति शेषः ॥ २० ॥ एवमिति । निर्वासितः निष्कासितः ॥१२॥ सजनप्रतिबाधकः सजनपीडकः ॥ २१ ॥ तस्य असमञ्जस्य । एतद्वाची असमनशब्दः अदन्तः सान्तश्चेति बोध्यम् ॥ २२ ॥ तत इति । समाभिजायत समभ्य। जायत ॥ २३ ॥ २४ ॥ इति श्रीमहेश्वरतीयविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्यारवायाम् अष्टाविंशः सर्गः ॥ ३८ ॥ विश्वामित्रेति । कथान्ते ।
For Private And Personal Use Only