________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
पूर्णे, तपस्यत इतिशेषः ॥६॥ अपत्येति। सुबड्वपत्यविषयत्वात्सुमहत्त्वम् । कीर्तिमिति तेनेति शेषः॥७॥ एकेति।जनयितेति लुट् ।तातेत्युपलालने ॥८॥ भाषमाणमिति । राजपुध्या नेति छविन्यायादुकम् । सुमतेः कश्यपपुत्रीत्वात् ॥ ९॥ एक इति । तव वचः सत्यमस्तु, यस्या एकमिच्छसि तस्या एमः। यत्या वडूनिच्छति तस्या बहवः सन्तित्यर्थः ।। १०॥ तयोरिति । अत्र पुत्रविषये । स्वच्छन्दः स्वेच्छा । विधीयतां ज्ञाप्यताम् ॥११॥ तदेव
अपत्यलाभः सुमहान भविष्यति तवालय । कीर्ति चाप्रतिमां लोके प्राप्यसे पुरुषर्षभ ॥ ७॥ एका जनयिता तात पुत्रं वंशकरं तव । षष्टिं पुत्रसटलागि अपरा जनयिष्यति ॥ ८॥ भाषमाणं महात्मानं राजपुग्यौ प्रसाद्य तम् । ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा ॥ ९ ॥ एकः कस्यास्सुतो ब्रह्मन का बहून् जनयिष्यति । श्रोतु मिच्छावहे ब्रह्मन् सत्यमस्तु वचस्तव ॥ १०॥ तयोस्तद्वचनं श्रुत्वा भृगुः परमधार्मिकः। उवाच परमां वाणी स्वच्छन्दोऽत्र विधीयताम् ॥ ११॥ एको वंशकरी वाऽस्तु बहवो वा महाबलाः । कीर्तिमन्तो महोत्साहाःका वा कं वरमिच्छति ॥ १२ ॥ मुनेस्तु वचनं श्रुत्वा कैशिनी रघुनन्दन । पुत्रं वंशकरं राम जग्राह नृपसन्निधौ ॥ १३ ॥ पष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा। महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ॥ १४ ॥ प्रदक्षिणमृषि कृत्वा शिरसाभिप्रणम्य च । जगाम स्वपुरं राजा सभायों रघुनन्दन ॥१५॥ अथ काले गते तस्मिन् ज्येष्ठा पुत्रं व्यजायत । असमञ्ज इति ख्यातं केशिनी सगरात्मजम् ॥ १६ ॥ सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत ।
पष्टिः पुत्राः सहस्राणि तुम्बभेदादिनिःसृताः ॥ १७ ॥ विवृणोति-एक इति ॥ १२ ।। मुनेरिति । जग्राह वरयामास ।। १३ ॥ षष्टिमिति । सुपर्णभगिनी गरुडभगिनी ॥ १४ ॥ प्रदक्षिणमिति । ऋषि भृगुम् | ॥ १५ ॥ अथेति। व्यजायत प्रसूतवती ॥१६॥ सुमतिरिति । गर्भतुम्बम् वृत्ताकारं गर्भपिण्डम् । कथं ततः पुत्रोदय इत्यत आह षष्टिरिति । तुम्ब एका जनयिता जनयिष्यति । वंशकरं कुलस्याविच्छेदकरम् ॥ ८॥९॥ एक इति । इच्छाबहे इच्छामः । सत्यं निर्णायकम् ॥ १०॥ तयोरिति । विधीयतां ज्ञाप्य ताम् ॥ ११ ॥ एक इति । बहवो वा महाबलाः इत्यनेन वंशकरा इति गम्यते ॥ १२-१६ ॥ सुमतिरिति । गर्भतुम्ब तुम्बफलाकारं गर्भपिण्डं व्यजायत व्यजन|
For Private And Personal Use Only