________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बा.रा.भू. ॐ विस्तरः दिव्यसम्भवः । तमेवाह कुमारेति । एवमेतदाख्यान श्रवणफलमुक्तम् धन्य इत्यादिना ॥ ३२ ॥ अथ प्रसङ्गात्तद्भक्ति फलमाह - भक्तश्वेति । सलोक एव सालोक्यम् । स्वार्थे ष्यञ् । तस्य भावः सालोक्यता, स्कन्दसमानलोकत्वमित्यर्थः ॥ ३३ ॥ इति श्री गोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जी राख्याने बालकाण्डव्याख्याने सप्तत्रिंशः सर्गः ॥ ३७॥ एवं दिव्यसम्भवं विस्तरं प्रतिपाद्य मानुषलोकसम्भवविस्तरं वक्तुमुपक्रमतेऽष्टात्रिंशे - तामित्यादि ।
॥१२८॥
भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः । आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत् ॥ ३३ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तत्रिंशः सर्गः ॥ ३७ ॥ तां कथं कौशिको रामे निवेद्य कुशिकात्मजः । पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत् ॥ १ ॥ अयोध्याधिपतिः शूरः पूर्वमासीन्नराधिपः । सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः ॥ २ ॥ वैदर्भदुहिता राम केशिनी नाम नामतः । ज्येष्ठा सगर पत्नी सा धर्मिष्ठा सत्यवादिनी ॥ ३ ॥ अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि । द्वितीया सगरस्यासीत् पत्नी सुमतिसंज्ञिता ॥ ४ ॥ ताभ्यां सह तथा राजा पत्नीभ्यां तप्तवांस्तपः । हिमवन्तं समासाद्य भृगुप्रवणे गिरौ ॥ ५ ॥ अथ वर्षशते पूर्णे तपसाराधितो मुनिः । सगराय वरं प्रादाद्भृगुः सत्यवतां वरः ॥ ६ ॥
Acharya Shri Kalassagarsuri Gyanmandir
रामे रामाय । कौशिकशब्दार्थमाह कुशिकात्मज इति ॥ १॥ अयोध्येति । अप्रजः अत एव प्रजाकामः ॥ २ ॥ वैदर्भेति । या वैदर्भदुहिता सां ज्येष्ठपत्न्यासीत् ॥३॥ अरिष्टेति । अरिष्टनेमिः कश्यपः || ४ || ताभ्यामिति । भृग्वधिष्ठितं प्रखवणं वारिप्रवाहो यस्मिंस्तथा। गिरौ पर्यन्तपर्वते ॥ ५ ॥ अथेति । वर्षशते धन्यत्व पुण्यत्वे विवृणोति - भक्तश्चेति । ऐहलौकिकफलेन धन्यत्वमामुष्मिकेन पुण्यत्वम् पुत्रपौत्रैश्चेत्यस्य युक्त इति शेषः । स्कन्दसालोक्यतां देहत्यागे ब्रजेत् ॥ ३३ ॥ इति श्रीमहेश्वरतीर्थ० श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां सप्तत्रिंशः सर्गः ॥ ३७॥ अथ “वीन पथो हेतुना केन" इत्यादिप्रश्नस्योत्तरं वकुमुपक्रमते- तां कथामिति । अपरं वाक्यं वक्ष्यमाणं प्रश्नोत्तरम् ॥ १ ॥ अयोध्येति । मजाकामः सन्ततिकामः । स च अप्रजः, अभूदिति शेषः ॥ २ ॥ वैदर्भेति । ज्येष्ठपत्नी आसी दिति शेषः ॥ ३ ॥ अरिष्टनेमिः कश्यपः ॥ ४ ॥ ताभ्यामिति । भृगुप्रस्रवणे भृगुप्रावणाख्ये हिमवतः पादे ॥ ५ अथ वर्षशते पूर्णे तपस्यत इति शेषः ॥ ६ ॥ ॥
For Private And Personal Use Only
टी.बा.की.
स० [३८
॥ १२८ ॥