________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
क्षीरसम्भावनार्थाय क्षीरेण वर्द्धनप्रयोजनाय कृत्तिकाः समयोजयन् । ण्यन्तत्वाद्विकर्मकत्वम् ॥२४॥ ता इति । कृत्तिकाः अयमस्माकं सर्वासा पुत्रो भवस्विति देवैः सह समयं सङ्केतं कृत्वा निश्चिताः कृतनिश्चयाः सत्यः। जातमात्रस्य तस्य क्षीरं ददुः दातुमुद्युक्ताः॥२५॥ तत इति। उक्तविशेषणः पुत्रः कार्तिकेयः कृत्तिकापुत्रो भविष्यति इति । ब्रुवन् अब्रुवन् ॥२६॥ तेषामिति । कृत्तिकाः गर्भपरिनवे गर्भोदके । स्कन्नं पतितम् । नापयन् अत्रापयन् ।। ताःक्षीरं जातमात्रस्य कृत्वासमयमुत्तमम् । ददुःपुत्रोयमस्माकं सर्वासामिति निश्चिताः ॥२५॥ ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रवन । पुत्रत्रैलोक्यविख्यातो भविष्यति न संशयः ॥ २६ ॥ तेषां तद्रवचनं श्रुत्वा स्कनं गर्भपरिस्रवे । स्नापयन परया लक्ष्म्या दीप्यमानं यथानलम् ॥ २७ ॥ स्कन्द इत्यब्रुवन देवाः स्कन गर्भ परिस्रवात् । कार्तिकेयं महाभागं काकुत्स्थ ज्वलनोपमम् ॥ २८ ॥ प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् । षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः॥२९॥ गृहीत्वा क्षीरमेकाहा सुकुमारवपुस्तदा । अजयत्स्वेन वीर्येण दैत्यसैन्यगणान् विभुः ॥३०॥ सुरसेनागणपतिं ततस्तमतुलद्युतिम् । अभ्यषिञ्चन सुरगणाः समेत्यानिपुरोगमाः
॥३१॥ एष ते राम गङ्गायां विस्तरोऽभिहितो मया। कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च ॥ ३२ ॥ गर्भववनिवृत्त्यर्थम् ॥२७॥ स्कन्द इति । स्कनत्वात् स्कन्द इत्यन्वर्थनाम, चक्कुरित्यर्थः ॥२८॥ प्रादुर्भूतमिति । ततः नापनानन्तरं । षण्णां कृत्तिकानां शीरं प्रादुर्भूतम् । तव स्तनजं पयः षडाननो भूत्वा जग्राह ॥२९॥ गृहीत्वेति । एकाङ्क्षति टजभावः समासान्तस्यानित्यत्वात् । एकदिनेन स्तन्यं पीत्वा
कमेण सुकुमारखपुरपि दैत्यगणानजयत् ॥३०॥ सुरेति । सुरसेनागणपतित्वेनाभ्यपिञ्चन्नित्यर्थः। प्रथममभिषेकस्ततो जय इत्यर्थक्रमः ॥३१॥ एष इति । IMक्षीरसम्भावनार्थाय क्षीरेण सम्भावनं पर्सनम् ॥ २४ ॥ ता इति । समयं कृत्वा अस्माकं पुत्र इति समयं कृत्वा क्षीरं ददुरिति सम्बन्धः ॥ २५ ॥ तत इति । ततः
समयकरणात् कार्तिकेय इति ब्रुवन् तमिति शेषः । अडागमाभाव आर्षः। इत्यब्रुवन्निति पदद्वयम् । अस्य श्लोकस्यान्ते न संशय इत्युपरि द्रष्टव्यम् । युष्माकं पुत्रः त्रैलोक्यविख्यातो भविष्यतीत्यबुवन्नित्यन्वयः ॥ २६ ॥ तेषामिति । गर्भपरिनवे स्कन्नं गर्भपरिस्रवेण पतितं स्नापयन, कृत्तिका इति शेषः ॥२७॥ २८ ॥ प्रादुर्भूत मित्यर्द्वमेकं वाक्यम् । अन्यथा उत्तरार्धस्थपयाशब्देन पुनरुक्तिः स्यात् ॥ २९ ॥ एवं तदा पइभिमुखैर्यावदपेक्षितं क्षीरं गृहीत्वा एकाहा एकदिनेनैव सुकुमारवपु रपि स्वतेजसैव दैत्यसैन्पगणानजयत ॥ ३०॥ सुरसेनागणपतित्वेन तमभ्यषिश्चन्नित्यर्थः । ततः सकलासुरजयादेतोः ॥३१ ॥ ३२ ॥
For Private And Personal Use Only