________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
शब्दः पुंल्लिङ्गोप्यस्ति । “देवतानि पुसि वा" इत्यनुशासनात् । दग्धरुदतेजसोऽग्रे स्थान कैलासः । पुत्रार्थ पुत्रोत्पादनार्थम् अग्निमूर्त्यन्तरं दग्ध रुदतेजःस्थम् ॥ १०॥ देवेति । संविधत्स्व सम्पादय। अस्य विवरणमुत्तरार्द्धम् । प्रथम सामान्येनोक्तिरनिहृदयज्ञानाय। महातेज इति सम्बोधनम् । तेजः।। रितः॥ ११॥ देवतानामिति । देवताभ्यस्तयेति प्रतिज्ञायाकाशगङ्गां गत्वा हे देवि गर्भ धारय इत्युवाचेतिशेषः। किमर्थमित्यत आह-देवतानामिदं प्रियमिति ॥१२॥ तस्येति । दिव्यं रूपं दिव्यत्रीवेषम्। सोऽग्निस्तस्या महिमानं सौन्दर्यातिशयं दृष्ट्वा समन्तात्सर्वावयवेभ्यः अवकीर्यत अवाकिरत् ।।
देवकार्यमिदं देव संविधत्स्व हुताशन । शैलपुत्र्यां महातेजोगङ्गायां तेज उत्सृज ॥ ११॥ देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः । गर्भ धारय वै देवि देवतानामिदं प्रियम् ॥ १२ ॥तस्य तद्वचनं श्रुत्वा दिव्यं रूप मधारयत्। दृष्ट्वा तन्महिमानं स समन्तादवकीर्यत ॥ १३ ॥ समन्ततस्तदा देवीमभ्यषिश्चत पावकः । सर्व स्रोतांसि पूर्णानि गङ्गाया रघुनन्दन ॥ १४ ॥ तमुवाच ततो गङ्गा सर्वदेवपुरोहितम् । अशक्ता धारणे देव तव तेजः समुद्धतम् । दह्यमानामिना तेन सम्प्रव्यथितचेतना ॥ १५॥ अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः । इह
हैमवते पादे गर्भोऽयं सन्निवेश्यताम् ॥ १६॥ आर्षः श्यन्प्रत्ययः । हृतवीर्योऽभूत् । “ अङ्गारसदृशी नारी घृतकुम्भसमः पुमान्।" इति न्यायात् ॥ १३॥ समन्तत इति । समन्ततः सववियवेषु अभ्यपिञ्चत रेतः सर्वावयवेषु यथा व्याप्तं भवति तथा सिक्तवानित्यर्थः । तेन सर्वस्रोतांति सर्वावयवाः पूर्णानि व्याप्तानि ॥१४॥ तमिन्यवयम् ।। तेनामिना अनितेजसा दह्यमाना अतएव सम्प्रव्यथितचेतना अतिदुःखितचित्ता गङ्गा । सर्वदेवानां पुरोहितम् । “अग्निमीडे पुरोहितम्" इति श्रुतः। तमनिमुवाच । कथम् ? हे देव । तव तेजः समुद्धतं अभिवृद्धं भवति अस्य धारणे अशक्तास्मीति ॥१५॥ अथेति । सर्वदेवानां यत् हुतं तमनातीति सर्वदेवा।
देवतानि पुसिवा" इत्यमरः॥१०॥ देवकार्यमिति । महातेजः इति सम्बोधनम् ॥ ११ ॥ देवतानामिति । इदं प्रियमित्युवाचेति शेषः॥ १ ॥ तस्येति ।। अवकीर्यत अवाकिरत । तेज इति शेषः ॥ १३॥ समन्तत इति । पावकः तेजोरूपः । अभ्यषिश्चत व्याप्तवान । स्रोतासि कर्णनासादीनि । पूर्णानि नो महिनेतिर शेषः॥१४॥ तमित्यादि । अशक्ता धारणे तव तेजसो धारणे अशक्ता । तद्धि तेजस्समुद्धतं। तेनाग्निना तेन तेजसा। संपव्यथितचेतनास्मीति शेषः ॥१५।। अयेति ।।
For Private And Personal Use Only