________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
वा.रा.भू. ॐ इति । अग्रिना पुरोगमेन सहिताः साग्निपुरोगमाः । सुराः सर्वे प्रणिपत्य सुराः सर्वे अन्नुवन्निति क्रियाभेदान्न पुनरुक्तिः ॥ २ ॥ यां न इति । भगवता ( १२६ ।। ६७ भवता । यः सेनापतिरस्मभ्यमादिकाले दत्तः स इदानीमुमया सह तप्यते । स्मेति प्रसिद्धौ ॥ ३ ॥ यदिति । अनन्तरं सेनापतावन्यपरं सति । अत्र सेना पतिविषये । यत्कार्ये तत्संविधत्स्व आलोचय । तमेवाहूय सैनापत्ये निवेशय, अन्यं वोत्पादयेत्यर्थः ॥ ४ ॥ देवानामिति । सान्त्वयन् उग्रे तपसि वर्त यो नः सेनापतिर्देव दत्तो भगवता पुरा । तपः परममास्थाय तप्यते स्म सहोमया ॥ ३ ॥ यदत्रानन्तरं कार्य लोकानां हितकाम्यया । संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः ॥ ४ ॥ देवतानां वचः श्रुत्वा सर्वलोकपितामहः । सान्त्वयन् मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत् ॥ ५ ॥ शैलपुत्र्या यदुक्तं तन्नं प्रजाः सन्तु पत्रिषु । तस्या वचनमक्लिष्ट सत्यमेतन्न संशयः ॥ ६ ॥ इयमाकाशगा गङ्गा यस्यां पुत्रं हुताशनः । जनयिष्यति देवानां सेनापतिमरिन्दमम् ॥ ७ ॥ ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तत्सुतम् । उमायास्तद्बहुमतं भविष्यति न संशयः ॥ ८ ॥ तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन । प्रणिपत्य सुराः सर्वे पितामहमपूजयन् ॥ ९ ॥ ते गत्वा पर्वतं राम कैलासं agaण्डतम् । अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः ॥ १० ॥
समानस्य तस्य रुद्रस्य निवर्तनमशक्यम्, तत्र नाभिनिवेशः कार्य इति समादधान इत्यर्थः ॥ ५ ॥ अन्यं वात्पादद्येत्यत्र प्रतिवक्ति - शैलेति । शैलपुत्र्या पार्वत्या देवानां पत्त्रिषु प्रजा न सन्त्विति यदुक्तं तद्वचनम्। अक्किष्टम् अमोघम् । मया सत्यमेवोच्यते अत्र संशयां भवद्भिन कर्तव्यः ॥ ६ ॥ तर्हि का गति रित्यत्राह - इयमिति । इयं बुद्धिस्था । अस्तीति शेषः ॥ ७ ॥ कथमिदं गङ्गा संमन्यते, कुतोवोमा न कुप्यंत्तत्राह - ज्येष्ठेति । तत्सुतम् अग्रेः सुतं मानयि सध्यति, बहुमतिपूर्वे जनयिष्यतीत्यर्थः । तदुमाया बहुमतं स्वज्येष्ठायाः प्रीत्यर्थत्वादितिभावः॥ ८॥ तदिति । कृतार्थाः कृतार्थप्रायाः॥९॥ त इति । दैवत येन रुद्रेण । सेनापतिः बीजात्मना दत्तः स परममास्थाय परं मौनमङ्गीकृत्य तपस्तप्यते अनुतिष्ठति ॥ ३५॥ शैलपुत्र्येति । यच्छेलपुत्र्या उक्तं तत्तेन कारणेन न प्रजास्यथन प्रजनयिष्यथ । पुत्रानिति शेषः । अक्लिष्टम् अमोघम् ||६|| ७|| ज्येष्ठेति । तत्सुतम् अग्निक्षिप्तं गर्भ । मानयिष्यति धारयिष्यति । उमाया इति, तद्र्भधारणम् उमाया बहुमतं देवतोदेशेन स्वकृतशापस्य वैकल्याभावो रुद्रतेजसः स्वज्येष्ठभगिन्या धारणं च अस्या अपि बहुमानहेतुः ॥ ८ ॥१९॥ त इति । देवताः दैवतानि । १ पेन सेनापतिः । २ पुरा स न जातच भगवन्नरमंदरि निबर्हणः । उत्थिता भगवान् शहरे व तरः ३ न प्रजाप इति पाठान्तरम् ।
For Private And Personal Use Only
टी.बा. की.
म० ३७
।।९२६॥