________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyanmandit
सामीप्ये वर्तमानवत्प्रयोगः । तत् कः प्रतिसहिष्यत इति विचार्य तनिवर्तनाय समुयुक्ता इत्यर्थः ॥ ८॥ तमेवाद्योगमाह-अभिगम्यति । महादेवमिति शेषः ॥ ९ ॥ देवदेवेति । देवदेवेत्यनेन महादेवशब्दार्थः उक्तः! प्रणिपातेन पादमूलपतनेन॥ १० ॥ नेति । तेजः तेजस्समुद्भुतं पुत्रं न धारयिष्यन्ति न सहिष्यन्ते, अतो ब्राझेग वेदावगतेन तपसा योगेन युक्तः सन्, तदङ्गतया देव्या सह तपश्चर। न तेजः पार्वत्यां मोक्तुमर्हसीति भावः॥११॥ त्रैलोक्यति ।
अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन ॥९॥ देवदेव महादेव लोकस्यास्य हिते रत । सुराणां प्रणिपातेन प्रसाद कर्तुमर्हसि ॥ १०॥न लोका धारयिष्यन्ति तव तेजः सुरोत्तम। ब्राह्मण तपसा युक्तो देव्या सह तपश्चर ॥११॥ त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय ॥ १२॥ [रक्ष सर्वानिमाँल्लोकानालोकं कर्तुमर्हसि।] देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः। बाढमित्यब्रवीत् सर्वान पुनश्चेदमुवाच ह ॥१३॥ धारयिष्याम्यहतेजस्तेजस्येव सहोमया। त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु ॥१४॥ यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम् ।धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः॥१५॥ एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम् । यत्तेजः क्षुभितं ह्येतत्तद्धरा धारयिष्यति॥१६॥
एवमुक्तः सुरपतिःप्रमुमोच महीतले। तेजसा पृथिवी येन व्याप्ता सगिरिकानना ॥ १७॥ त्रैलोक्यहितमेव कामः काम्यमानः पुरुषार्थः तदर्थ । तेजः रेतः, तेजसि तेजोमयनिजशरीरे धारय, न मुञ्चेत्यर्थः।।१२॥ देवतानामिति । सर्वलोकमहेश्वरः । सर्वलोकानां परमनियन्ता । सर्वलोकपितामह इति पाठान्तरम् ॥१३॥ बाढमित्यङ्गीकृतांशमाह-धारयिष्यामीति । तेजः अक्षुभितांशम् । उमया उमाप्य क्षभितं शोणितरूपं तेजो धारयत्वित्यर्थः । पृथिवीशब्देन लोका उच्यन्ते । निर्वाणं सुखम् ।। १४ । 'पुनश्चेदमुवाच' इत्युक्तमंशं दर्शयति-यदिदमिति । स्थानात् रेतःस्थानहृदयसम्पुटात् । अनुत्तमं दुर्भरं। मे मह्यं ब्रुवन्तु ॥१५॥ एवमिति । धरा सर्वधारणशक्तिमती, अनेन धरातदारणार्थ देवैःप्रार्थितेति सिद्धम् ॥ १६॥ एवमिति । सुरपतिः रुद्रः । प्रमुमोच तेज इति सिद्धम् । येन तेजसा पृथिवी व्याप्ता तत्प्रमुमोच ॥ १७ ॥ इह पार्वत्याम् । यहभतमुत्पद्यते कस्तत्मतिसहिप्पत इति भयोद्विप्राः भयेन भीत्या उद्विग्नाः ॥८-११॥ त्रैलोक्येति । नेजस्तेजसि धारय तेजः रेतः, तेजः आत्मा तस्मिन् ॥ १२ ॥ १३॥ धारयिष्याम्यहं तेज इति । स्थानादक्षुमितमिति भावः । उमया सह वर्तमान इति शेषः । तेजसि आत्मनि ॥ १४॥ यदिदमिति । धार
For Private And Personal Use Only