________________
Shri Mahavir Jain Aradhana Kendra
रा.ग.भ.
www.kobatirth.org
धर्मेति अर्द्धत्रयम् । धर्मयुक्तं, धर्मफलक श्रवणमित्यर्थः । इदं वृत्तं ज्येष्ठाया दुहितुः वृत्तं त्वया कथितम् । तस्या दिव्यमानुषसम्भवं दिव्यलोके मानुषलोके च . टी. वा. कॉ. सम्भवं विस्तरं वक्तुमर्हसि ||२|| त्रीनिति । त्रीन् पथः भूर्भुवः स्वर्मार्गान् । केन हेतुना लावयेत् प्लुता । भावयेदित्यपि पाठः । लकारव्यत्ययः । इतरयोः पूर्वसर्ग एवोक्तत्वात्केन हेतुना तृतीयपथं गतति द्वितीयप्रश्नार्थः ॥ ३ ॥ तृतीयप्रश्रमाह- कथमिति । त्रिपथगा गङ्गा कथं विश्रुता कैः कर्मभिः व्यापारैः
स० ३६
धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया । दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि । विस्तरं विस्तरज्ञोऽसि दिव्य मानुषसम्भवम् ॥ २ ॥ त्रीन पथो हेतुना केन प्लावयेलो कपावनी ॥ ३ ॥ कथं गङ्गा त्रिपथगा विश्रुता सरि दुत्तमा । त्रिषु लोकेषु धर्मज्ञ कर्मभिः कः समन्विता ॥ ४ ॥ तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः । निखि न कथां सर्वामृषिमध्ये न्यवेदयत् ॥ ५ ॥ पुरा राम कृतोद्वाहो नीलकण्ठो महातपाः । दृष्ट्वा च स्पृहया देवीं मैथुनायोपचक्रमे ॥ ६ ॥ शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् । [ तस्य संक्रीडमानस्य महादेवस्य धीमतः । एवं मन्मथ युद्धे तु तयोर्नासीत्पराजयः ॥ ] न चापि तनयो राम तस्यामासीत्परन्तप ॥७॥ ततो देवाः समुद्विग्नाः पितामहपुरोगमाः । यदिहोत्पद्यते - भूतं कस्तत्प्रतिसहिष्यते ॥ ८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सरिदुत्तमा आसीत् ॥ ४ ॥ प्रथमप्रश्नोत्तरमाहेत्याह- तथेति । काकुत्स्थ इति लक्ष्मणस्याप्युपलक्षणम्। निखिलेन विस्तरेण । सर्वो दिव्यसम्भवां मानुष | सम्भवां च ॥ ५ ॥ निखिलेनेत्युक्तं गाङ्गेयसम्भवमाह-पुरेति । कृतोद्राह इति परपरिग्रहव्यावृत्तिः । दृष्ट्वा स्पृहया महातपोनिष्ठत्वेऽपि कामबाणवशात् तस्यामभिलाषेण । मैथुनाय मिथुनकर्म कर्तु उपचक्रमे ॥ ६ ॥ शितीति । दिव्यं वर्षशतं गतं मैथुनेनैवेति शेषः । तनयः तनयप्रापकरेतोविसर्गः ॥ ७ ॥ तत इति । पितामहपुरोगमाः देवाः समुद्विना भीताः। पाठान्तरे समुद्युक्ताः उद्योगं चक्रुः। किमर्थम् ? इह पार्वत्यां यद्भूतं पुत्रः उत्पद्यते उत्पत्स्यते । वर्तमान धर्मयुक्तमिति । शैलराजस्य ज्येष्ठाया दुहितुरिदं कथितमित्यन्वयः ॥ २॥ त्रीन् पथ इत्यादिना पृष्टस्यैव पुनः प्रश्नो गङ्गाकथाश्रवणकुतूहलातिशयादिति द्रष्टव्यम् ॥ ३ ॥ | कर्मभिः व्यापारविशेषैः॥ ४॥ तथेति । निखिलेन विस्तरेण ||५||६|| शितिकण्ठस्येति । देवस्य क्रीडतः । भावलक्षणे षष्ठी । दिव्यम् अमानुषम् ॥ ७ ॥ तत इति ।
For Private And Personal Use Only
॥ १२४॥