________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू.
॥ १२३ ॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
शिष्टमन्नम् "यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्” इतिस्मृतेः । शुचौ दृष्टदोषरहिते भोजनस्थानादन्यत्र ॥ १० ॥ ११ ॥ अथेति । अथ उपवेशा टी.बा.कां. अनन्तरम् । तत्र देशे। तदा तस्मिन्नेव काले । द्वितीयोऽथशब्दः प्रश्ने । “मङ्गलानन्तरारम्भप्रश्नकात्स्न्यैष्वथो अथ” इत्यमरः । गङ्गां गङ्गावृत्तान्तम् ॥१२॥ त्रैलोक्यमित्यर्द्धम् || १३|| चोदित इति । वृद्धिं त्रैलोक्यमित्यनेनो काम, जन्म गङ्गां श्रोतुमित्युक्तम् ||१४|| शैलेन्द्र इति । धातूनाम् अयस्ताम्रादीनाम्
딩스
अथ तत्र तदा रामो विश्वामित्रमथाब्रवीत् । भगवन् श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम् ॥ १२ ॥ त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् ॥ १३ ॥ चोदितो रामवाक्येन विश्वामित्रो महामुनिः । वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे ॥ १४ ॥ शैलेन्द्रो हिमवान्नाम धातूनामाकरो महान् । तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि ॥ १५ ॥ या मेरुदुहिता राम तयोर्भ्राता सुमध्यमा । नाम्ना मनोरमा नाम पत्नी हिमवतः प्रिया ॥ १६ ॥ तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतः सुता । उमा नाम द्वितीयाभृन्नाम्ना तस्यैव राघव ॥ १७ ॥ अथ ज्येष्ठां सुराः सर्वे देवतार्थचिकीर्षया । शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम् ॥ १८ ॥ ददौ धर्मेण हिमवांस्तनयां लोकपावनीम् । स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया ॥ १९ ॥
अस्तीति शेषः । कन्याद्वयम् आसीदितिशेषः ॥ १५ ॥ येति । या मेरुदुहिता हिमवतः प्रिया पत्नी मनोरमानाम प्रसिद्धा सा तयोर्मातेत्यन्वयः ॥ १६ ॥ कन्याद्वयस्य नामनी दर्शयति-तस्यामिति ॥ १७ ॥ अथेति । देवतार्थचिकीर्षया देवतार्थसम्पादने च्छया, प्रयोजनं च स्नानपानादि वक्ष्यमाणसेनापति जननं वा परदेवतार्चनार्थ वा, अतएव स्वपदेनानुक्तिः ॥ १८ ॥ ददाविति । धर्मेण याचका न प्रत्याख्येया इति धर्मेण । जलप्रवाहरूपाया नद्याः कथ माकाशे गमनम् ? तत्राह - स्वच्छन्दपथगामिति । स्वच्छन्दः स्वेच्छा तदायत्तः पन्थाः स्वच्छन्दपथः “ऋक्पूरन्धूः -” इत्यादिना अप्रत्ययः समासान्तः । ॥ १२३॥ अमृततुल्यं पञ्चयज्ञाद्यवशिष्टमन्नम् । यद्वा अमृतवत् तत्सदृशं गङ्गाजलं हविश्व प्रागुक्तं प्राप्येत्यर्थः ॥ १०-१३ ॥ वृद्धिं त्रैलोक्यव्याप्तिरूपाम् ॥ १४ ॥ धातूनां स्वर्णा दीनाम ॥ १५-१७॥ अथेति । देवतार्थचिकीर्षया देवतार्थश्व कुमारजननादिः । त्रिपथगां स्वर्गभूपातालमार्गगाम् ॥ १८ ॥ ददाविति । धर्मेण स्वस्रुकृतेन । तनयां तनयात्वं
For Private And Personal Use Only