________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ. ॥१२२॥
टी.वा.को. टी. स.
ज्योतिष्मद्भिनेत्ररावृतमिवावभासते । उत्तिष्ठतीति “उदोनूकर्मणि" इति परस्मैपदम् । तमो नुदाति तमोनुदः "इगुपधलक्षणः कः" । निशायां प्रभवन्ति नेशानि । “प्रभवति" इत्यण् । भूतानि उलूकादयः। ततस्ततः तत्र तत्र । पौर्णमास्यां यज्ञं समाप्य द्वितीयायां प्रस्थानमिति चतुर्घटिका नन्तरं चन्द्रोदय इति सर्वथार्द्धरात्रशब्दः प्रदोषपर एव ॥ १५-१८॥ एवमिति। अभ्यपूजयन् अस्तुवन् ॥ १९॥ कुशिकानामिति । गाधेः कुशिक
एवमुक्त्वा महातेजा विरराम महामुनिः । साधुसाध्विति तं सर्वे ऋषयो ह्यभ्यपूजयन् ॥१९॥ कुशिकानामयं वंशो महान् धर्मपरः सदा ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तमाः ॥२०॥ विशेषेण भवानेव विश्वामित्रो महायशाः। कौशिकी च सरिच्छृष्टा कुलोद्योतकरी तव ॥ २१॥ इति तैर्मुनिशार्दूलैः प्रशस्तः कुशिकात्मजः । निद्रामुपागम च्छीमानस्तंगत इवांशुमान् ॥२२॥ रामोऽपि सहसौमित्रिः किञ्चिदागतविस्मयः। प्रशस्य मुनिशालं निद्रा समुप सेवते ॥ २३ ॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४॥
उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः । निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत ॥१॥ इति नामान्तरम् । कुशिकानां तद्द्वोत्रजानाम् । ब्रह्मोपमाः चतुर्मुखोपमाः ॥२०॥ विशेषेणेति । विश्वामित्रः विश्वामित्रसंज्ञः । भवानेव महात्मेत्यनुपङ्गः। कोशिकी च तव कुलोद्योतकरी कुलप्रकाशकरी॥२१॥ इतीति । प्रशस्तः स्तुतः। "शंसु स्तुतो" “यस्य विभाषा" इति नेट । “ अनिदिता-" इति नलोपः। श्रीमान् प्रशंसाकृतहर्षजनितश्रीमान् । अस्तङ्गतोर्डशुमानिव तद्वत्परप्रबोधाजनक इत्यर्थः ॥२२॥ रामोपीति । किश्चिदागतविस्मयः निद्रा पारवश्यादितिभावः । समुपसेवते अध्वश्रमवशात सम्यक् प्राप्तः ॥२३॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्ड व्याख्याने चतुर्विंशः सर्गः ॥ ३४ ॥ अथ स्वपादोद्भवगङ्गावैभवं लोके प्रवर्तयितुं पृच्छति पञ्चविंशे-उपास्येत्यादि । उपास्य स्थित्वा, शयित्वेति निशायां चरन्तीति तथा ॥ १६-१९ ॥ स्तुतिप्रकारमाह-कुशिकानामित्यादि । ब्रह्मोपमाः ब्रह्मर्षितुल्यः ॥ २०॥ हे महायशः विश्वामित्र ! यस्तपसा ब्रह्मर्षित्वं प्राप्त इति भावः ॥ २१ ॥ २२ ॥ राम इति । निद्रा समुपसेवते भूतार्थे लट ॥ २३ ॥ इति श्रीमहेश्वरतीयविरचितार्या श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्ड व्याख्यायां चतुर्विंशः सर्गः ॥ ३४ ॥ उपास्येति । रात्रिशेषम् उपास्य निद्रामुपगम्य । अत्यन्तसंयोगे द्वितीया ॥१॥
For Private And Personal Use Only