________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
एवम्भूतस्य सिद्धाश्रमागमननिमित्तमाह-अहं हीति । नियमात् यागनियमादेतोः। समुपागतः सिद्धाश्रममितिशेषः ॥ १२॥ एषेति । मम स्वस्य वंशस्य चोत्पत्तिः प्रसङ्गात्कीर्तिता, यत्त्वया पृष्टं तत् । देशस्य गिरिजदेशस्य वैभवं चोक्तम् ॥ १३ ॥ इतःपरं न प्रष्टव्यमित्याशयेनाइ-गत इति । अझै रात्ररर्द्धरात्रः । अनपुंसकत्वपि “अर्द्ध नपुंसकम्" इत्यापः समासः। “अहः सर्व-" इत्यादिना समासान्तोऽच् । “राबाह्न-" इति पुंल्लिङ्गता ।।
अहं हि नियमादाम हित्वा तां समुपागतः। सिद्धाश्रममनुप्राप्य सिद्धोऽस्मि तव तेजसा॥२॥ एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता । देशस्य च महाबाहो यन्मां त्वं परिपृच्छसि ॥ १३ ॥ गतोऽद्धरात्रः काकुत्स्थ कथाः कथयतो मम । निद्रामभ्येहि भद्रं ते माभूद्विघ्नोऽध्वनीह नः ॥ ४॥ निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः। नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन ॥ १५॥ शनैर्वियुज्यते सन्ध्या नभो नेत्ररिवावृतम् । नक्षत्रतारागहनं ज्योतिभिरवभासते ॥ १६॥ उत्तिष्ठति च शीतांशुः शशी लोकतमीनुदः । ह्रादयन् प्राणिनां लोके मनांसि प्रभया
विभो ॥ १७ ॥ नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः । यक्षराक्षससंघाश्च रौद्राश्च पिशिताशनाः ॥ १८॥ Mअवार्द्धशब्दोऽशवाची । उक्त हि-"भित्तं शकलखण्ड वा पुंस्योऽर्द्ध समेशके" इति । यावति रात्रिभाग निद्रा निषिद्धा तावान् गत इत्यर्थः । जाग रणे को दोष इत्यत्राह-माभूदिति । श्वो गन्तव्याध्वनि निद्राभावप्रयुक्तालस्यकृतविघ्नो माभूदित्यर्थः। मम कथाः कथयतः। मयि कथा कथयति ॥१४॥ अथ निशामुखं वर्णयति चतुर्भिः-निष्पन्दा इत्यादि । निष्पन्दाः पक्षिसञ्चाराभावादिति भावः । निलीनाः निद्रां प्राप्ता इत्यर्थः । नेशेन सन्ध्या तिरिक्तकालिकेन । सन्ध्या वियुज्यते वियुक्ता । वर्तमानसामीप्ये लट् । नक्षत्रैः अश्विन्यादिभिः, ताराभिः केवलनक्षत्रैश्च गहनं व्याप्तम् । नमः ज्योतिर्भिः अहमिति । नियमात अध्वरनियमाद्धेतोः ॥ १२ ॥ एषा इति । 'कुशवंशप्रसृतोऽस्मि' इत्यादिना स्वस्योत्पत्तिः 'ब्रह्मयोनिः' इत्यादिमहाप्रबन्धेन स्ववंशोत्पतिः एषा) वसुमती' इत्यादिना देशस्योत्पत्तिः कीर्तितेत्यर्थः ॥१३॥ गतोऽर्धरात्र इति । अत्र अर्धरात्रशब्देन प्रदोषो लक्ष्यते, अन्यथा 'शनेवियुज्यते सन्ध्या' इत्युत्तरत्र तद्वचनं । विरुध्येत, कथान्तरश्रवणकौतुहलतदर्थप्रार्थनविरामार्थकालविप्रकर्ष प्रीत्या प्रकाशयति न पुनः परमार्येनेति । यथाश्रुतार्थग्रहणे तु शनैर्वियुज्यते सन्ध्येत्यत्र भूतार्थे लट् ॥ १४ ॥ १५॥ शनैरित्यादि । नक्षत्रतारागहनं नक्षत्रग्रहर्गहनम् अत एव नेत्ररावृतमिव नभः ज्योतिर्भिः उडुभिः तेषां रश्मिभिर्वा अवभासते । नेशानि
For Private And Personal Use Only