________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.म. ॥१२॥
शाश्वती। भवार्थे अण् । बहिषष्टिलोपवचनादव्ययानां भमात्र टिलोपः क्वाचित्कः। अत्र न ततो ङीप् । ताम् ॥३॥ एवमिति । अनेन सदा ब्रह्मलोक टी.वा.का. वासी कुशः पुत्रानुग्रहार्थ भुवमागत इत्यवगम्यते । सनातनं नित्यम् ॥ ४॥ कस्यचिदिति । कस्यचित्कालस्य कस्मिंश्चित्काले गते सति । गाधिस०३४ रित्येव यथा पित्रोक्तं तथैवेत्यर्थः । जज्ञे घृताच्यां भार्यायाम् ॥५॥ स इति । यतः कुशवंशप्रसूतोऽस्मि अतः कौशिकसंज्ञोऽस्मि । कुशशब्दात् गोत्रा
एवमुक्त्वा कुशो राम कुशनाभं महीपतिम् । जगामाकाशमाविश्य ब्रह्मलोकं सनातनम् ॥ ४ ॥ कस्यचित्त्वथ कालस्य कुशनाभस्य धीमतः । जज्ञे परमधर्मिष्टो गाधिरित्येव नामतः ॥ ५॥ स पिता मम काकुत्स्थ गाधिः परमधार्मिकः । कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन ॥ ६॥ पूर्वजा भगिनी चापि मम राघव सुव्रता । नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ॥७॥ सशरीरा गता स्वर्ग भर्तारमनुवर्तिनी। कौशिकी परमोदाग प्रवृत्ता च महानदी॥ ८॥ दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता ।लोकस्य हितकामाथै प्रवृत्ता भगिनी मम॥९॥ ततोऽहं हिमवत्पाा वसामि निरतः सुखम् । भगिन्यां स्नेहसंयुक्तः कौशिक्यां रघुनन्दन ॥ 1 ॥ सा तु सत्यवती
पुण्या सत्ये धर्म प्रतिष्ठिता । पतिव्रता महाभागा कौशिकी सरितां वरा ॥ ११ ॥ पत्ये ठक् ॥६॥ पूर्वजेति । पूर्वजा ज्येष्ठा। ऋचकि ऋचीकाख्यमुनय इत्यर्थः ॥७॥ सशरीरेति । भर्तारमनुवर्तिनी भत्रनुवर्तनधर्मप्रभावादिति भावः। न । केवलं स्वर्गगमनमस्याः,महानदीत्वं च जातमित्याह-कोशिकीति ॥८॥ दिव्येति।दिव्या श्लाघ्या । हितमामुष्मिकम्, कामः ऐहिकम् तदुभयाथै प्रवृत्ता। नदीरूपेण स्वर्गाद्धिमवन्तमुपाश्रितेत्यर्थः ॥ ९॥ तत इति । यतो हिमवन्तमाश्रिता तत इत्यर्थः॥ १० ॥ सत्यवतीनामनिमित्तमाह-सा त्विति ॥११॥ पूर्वजेति । ऋचीके ऋचीकाय । प्रतिपादिता दत्ता ॥७॥ सशरीरेति । अनुवर्तिनी शुश्रूषमाणा । न केवलं सशरीरतः स्वर्गगमनम् अपितु अस्या महानदीत्वमपि ॥१२॥ जातमित्याह कौशिकीत्यादिना ॥८॥ दिव्येति । दिव्या अनन्यसाधारणा । हितकामा हितमामुष्मिकं, कामः ऐहिकम् तदर्थम्, यतः सा हिमवन्तमुपाश्रिता अत इत्यर्थः ॥ ९॥ १०॥ इतश्च तत्र वास इत्याह-सा त्विति । सत्ये धर्मे प्रतिष्ठिता तज्जलपानादिना सत्यान्मनो न निवर्तत इति भावः ॥११॥
For Private And Personal Use Only