SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org यथेति । तासां पाणीन् जग्राह । देवपतिर्यथा देवपतिसदृशः, तत्तुल्यविभव इत्यर्थः ॥ २२ ॥ स्पृष्टेति । ततश्वलिसूनुना । पाणाविति जात्येकवचनम् । विकुब्जाः विगत कुब्जभाषाः शतं कन्या बभुः । विसर्गलोप आर्षः । बभुः कन्याशतमिति पाठः ॥२३॥ स इति । वायुना मुक्ताः, कन्या इति शेषः । परमप्रीतः अनुकूलवरंलाभेन परमप्रीतः । हर्षे विकुब्जत्वकृतम् ||२४|| कृतेति । प्रेषयामास काम्पिल्यामिति शेषः ||२५|| सोमदेति सार्द्धश्लोकः । सोमदा चूलिपुत्र Acharya Shri Kailassagarsuri Gyanmandir यथाक्रमं ततः पाणीअग्राह रघुनन्दन । ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा ॥ २२ ॥ स्पृष्टमात्रे ततः पाणौ विकुब्जा विगतज्वराः । युक्ताः परम्या लक्ष्म्या वभुः कन्या शतं तदा ॥ २३ ॥ स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः । बभूव परमप्रीतो हर्षं लेभे पुनःपुनः ॥ २४ ॥ कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिः । सदारं प्रेष यामास सोपाध्यायगणं तदा ॥ २५ ॥ सोमदापि सुसंहृष्टा पुत्रस्य सदृशीं क्रियाम् । यथान्यायं च गन्धर्वी स्नुषा स्ताः प्रत्यनन्दत । स्पृष्ट्वास्ष्टट्वा च ताः कन्याः कुशनाभं प्रशस्य च ॥ २६ ॥ इत्यार्षे श्री० वा० त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ कृतोद्वा गते तस्मिन् ब्रह्मदत्ते च राघव । अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत् ॥ १ ॥ इष्ट्यां च वर्तमा नायां कुशनाभं महीपतिम् । उवाच परमोदारः कुशो ब्रह्मसुतस्तदा ॥ २ ॥ पुत्र ते सदृशः पुत्रो भविष्यति सुधा र्मिकः । गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् ॥ ३ ॥ २१ माता। पुत्रसदृशीं क्रियां दारक्रियाम्, दृट्वेतिशेषः। यथान्यायं यथाक्रमम् । स्नुषाः कन्याः कुशनाभ पुत्रीः ॥ २६ ॥ इ० श्रीगो० श्रीरा० त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ एवं प्रासङ्गिकं परिसमाप्य प्रकृतकथाशेषमाह चतुस्त्रिंशे - कृतोद्वाह इत्यादि । अपुत्रः कुशनाभः । पुत्रायेयं पौत्री ताम् ॥ १ ॥ इष्टयामिति । कुशः कुशनाभपिता ॥ २ ॥ पुत्रेति । सदृशः, गुणैरितिशेषः । स पुत्रः किंनामकः ? तत्राह - गाधिमिति । गाधिनामानं पुत्रं प्राप्स्यते, तेन गाधिना । शश्वद्भवा स इति । दातुं बुद्धिं निश्वयं कृतवान् ॥ २०-२२ ॥ स्पृष्टेति । विकुब्जाः विगतकुब्जभावाः, अस्य ब्रह्मतेजम्सम्पत्तिरेवात्र कारणं विज्ञेयम् । वायुना भग्नाः पूर्व मिति शेषः (वायुना भग्नाः इति पाठः) ॥२३-२५॥ सोमदेति । सदृशक्रियाम् सदृशविवाहम् । सदृशक्रियामित्यस्य प्रत्यनन्दतेति परेण सम्बन्धः ॥ २६॥ इति श्रीमहे ० श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ कृतोद्वाह इति । अपुत्रः कुशनाभः ॥ १ ॥ २ ॥ पुत्रेति । तेन गाधिना ।। ३-६ ॥ For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy