________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥१२०॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
पास्ते अशुश्रूषत । मध्येमध्ये भद्रमस्त्विति प्रयोगः शुभोत्तरत्वाय ॥ १२ ॥ सा चेति । काले कियति काले। तुष्टोऽभवत् । ब्रह्मर्षित्वाद्गुरुरित्युक्तिः ॥ १३॥ स चेति । कालयोगेन शुश्रूषापरिपाककालसम्बन्धेन । करोमि कुर्याम् ॥ १४ ॥ परितुष्टमिति । वाक्यकोविदं वाक्ये वचने कोविदं समर्थम् ॥ १५ ॥ लक्ष्म्येति । ब्राह्म्या लक्ष्म्या ब्रह्मवर्चसेन । समुदितः श्रेष्ठः अतएव ब्रह्मभूतः ब्रह्मतुल्यः महातपा असि । अस्मात्त्वत्तः पुत्रमिच्छामि । 'दीप्यसे परया लक्ष्म्या' सा च तं प्रणता भूत्वा शुश्रूषणपरायणा । उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद्गुरुः ॥ १३ ॥ स च तां काल योगेन प्रोवाच रघुनन्दन । परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम् ॥ १४ ॥ परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरा । उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् ॥ १५ ॥ लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः । ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिक ॥ १६ ॥ अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित् । ब्राह्मे णोपगतायाश्च दातुमर्हसि मे सुतम् ॥ १७ ॥ तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ पुत्रमनुत्तमम् । ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् ॥ १८ ॥ स राजा सौमदेयस्तु पुरीमध्यावसत्तदा । काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम् ॥ १९ ॥ स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः । ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा ॥ २० ॥ तमाहूय महातेजा ब्रह्मदत्तं महीपतिः । ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना ॥ २१॥
|| इति कोशान्तरे ॥ १६ ॥ अपतिरिति । विधवाप्यपतिर्भवति, तत्राह - भार्येति । उपगतायाः शरणं गतायाः मे । ब्राह्मण तपोमहिना ||१७|| तस्या इति । ब्रह्मणा तपोयोगेन । दत्तो ब्रह्मदत्तः । वूलिनः स्वस्य मानसं मनस्सङ्कल्पजं सुतं ददौ ॥ १८॥ स इति । राजा क्षत्रियः क्षत्रजत्वात् । लक्ष्म्या सम्पदा युक्तः । एतस्मिन्नन्तरे पुरीमध्यावसदिति सम्बन्धः॥ १९ ॥ स बुद्धिमिति । तदा ब्रह्मदत्तस्य काम्पिल्याख्यायां पुर्यामावासका ले॥ २० ॥ तमिति । राजा रञ्जकः॥ २१ ॥ ॥ सेति । काले कियति काले ॥१३॥ स चेति । कालयोगेन प्रसादकालयोगेन । किं करोमि किंकरवाणि ॥ १४॥१५॥ लक्ष्म्येति । ब्राह्म्या लक्ष्म्या समुदितः ब्रह्मभूतो महा तपाः त्वम् अतो ब्राह्मण ब्राह्मशक्तियोगेन युक्तं पुत्रमिच्छामि ॥ १६ ॥ अपतिरित्यादि । पूर्व चापतिरस्मि, इदानीं न कस्यचिद्भार्यास्मि । नैष्ठिकब्रह्मचारिणीत्यर्थः । अतो ब्राह्मण धर्मेण उपगतायाः शरणं गतायाः मे सुतं दातुमर्हसि ॥ १७ ॥ १८ ॥ स राजा गन्धर्व्याः सोमदायाः क्षत्रियात्यात्। काम्पिल्याम् कम्पिलेन निर्वृत्ताम् ॥ १९ ॥ विषम० ननु पुत्रप्रार्थना पत्यानुचिता, अत आह-अपतिश्चास्मीति । इतः परमपि अस्मि अहम् अहमये अस्मीत्यन्ययम्, न कस्यचिद्भार्या भविष्यामीतिशेषः अधापि नैष्टिकह्मचारिण्याः उपगतायाः किङ्करत्वं प्राप्ताया मे ब्राह्मण सम्बन्धिनोपायेन सुतं दातुमर्हसि । सनकादय इव मानसः पुत्रो देय इति भावः ॥ १७ ॥
For Private And Personal Use Only
टी.वा.कां.
स० ३३
॥१२०॥